गणपति अथर्वशीर्ष मूल लघु

गणपति अथर्वशीर्ष मूल लघु

गणपत्यथर्वशीर्षम् में कुल १४ अनुच्छेद हैं। जिनमें १० अनुच्छेद मूल गणपत्यथर्वशीर्ष है और अन्त के ४ अनुच्छेद में इसकी फलश्रुति है। कुछ लोग १० अनुच्छेद तक ही इसका पाठ करते हैं, फलश्रुति का पाठ नहीं करते, परन्तु पूर्णतः पाठ करना चाहिये।

www.sugamgyaansangam.com
सुगम ज्ञान संगम के अध्यात्म + स्तोत्र संग्रह स्तम्भ में गणपत्यथर्वशीर्षम् के मूल अनुच्छेद के शब्दों को छोटे-छोटे रूप में दर्शाया गया है। शब्दों के ये छोटे रूप मूल शब्दों के सन्धि-विच्छेदन नहीं हैं; क्योंकि सन्धि-विच्छेदन से उच्चारण दोषपूर्ण होने की सम्भावना रहती है। प्रामाणिकता के तौर पर मूल अनुच्छेद भी दिये गये हैं, जो गीताप्रेस गोरखपुर से प्रकाशित किताब पंचदेव अथर्वशीर्ष पर आधारित हैं।

शान्तिपाठ

❑➧ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवाᳬंसस्तनूभिर्व्यशेम देवहितं यदायुः।।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु।।
ॐ शान्तिः! शान्तिः!! शान्तिः!!!
❍ ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्ये-माक्ष-भिर्य-जत्राः।
स्थिरै-रङ्गैस्-तुष्टुवाᳬं-सस्तनू-भिर्व्य-शेम देव-हितं यदायुः।।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्-दधातु।।
ॐ शान्तिः! शान्तिः!! शान्तिः!!!

गणपत्यथर्वशीर्षम् ❀

❑➧ॐ नमस्ते गणपतये। त्वमेव प्रत्यक्षं तत्त्वमसि। त्वमेव केवलं कर्तासि। त्वमेव केवलं धर्तासि। त्वमेव केवलं हर्ताऽसि। त्वमेव सर्वं खल्विदं ब्रह्मासि। त्वं साक्षादात्मासि नित्यम्।।१।।
❍ ॐ नमस्ते गणपतये। त्वमेव प्रत्यक्षं तत्त्व-मसि। त्वमेव केवलं कर्तासि। त्वमेव केवलं धर्तासि। त्वमेव केवलं हर्ताऽसि। त्वमेव सर्वं खल्विदं ब्रह्मासि। त्वं साक्षा-दात्मासि नित्यम्।।१।।

❑➧ऋतं वच्मि। सत्यं वच्मि।।२।।
❍ ऋतं वच्मि। सत्यं वच्मि।।२।।

❑➧अव त्वं माम्। अव वक्तारम्। अव श्रोतारम्। अव दातारम्। अव धातारम्। अव अनूचानम्। अव शिष्यम्। अव पश्चात्तात्। अव पुरस्तात्। अवोत्तरात्तात्। अव दक्षिणात्तात्। अव चोर्ध्वात्तात्। अवाधस्तात्। सर्वतो मां पाहि पाहि समन्तात्।।३।।
❍ अव त्वं माम्। अव वक्तारम्। अव श्रोतारम्। अव दातारम्। अव धातारम्। अव अनूचानम्। अव शिष्यम्। अव पश्चात्-तात्। अव पुरस्तात्। अवोत्-तरात्-तात्। अव दक्षिणात्-तात्। अव चोर्ध्वात्-तात् । अवाधस्-तात्। सर्वतो मां पाहि पाहि समन्तात्।।३।।

❑➧त्वं वाङ्मयस्त्वं चिन्मयः। त्वमानन्दमयस्त्वं ब्रह्ममयः। त्वं सच्चिदानन्दाद्वितीयोऽसि। त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोऽसि।।४।।
❍ त्वं वाङ्मय-स्त्वं चिन्मयः। त्वमानन्द-मयस्त्वं ब्रह्म-मयः। त्वं सच्चिदा-नन्दा-द्वितीयोऽसि। त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञान-मयो विज्ञान-मयोऽसि।।४।।

❑➧सर्वं जगदिदं त्वत्तो जायते। सर्वं जगदिदं त्वत्तस्तिष्ठति। सर्वं जगदिदं त्वयि लयमेष्यति। सर्वं जगदिदं त्वयि प्रत्येति। त्वं भूमिरापोऽनलोऽनिलो नभः। त्वं चत्वारि वाक्पदानि।।५।।
❍ सर्वं जगदिदं त्वत्तो जायते। सर्वं जगदिदं त्वत्तस्-तिष्ठति। सर्वं जगदिदं त्वयि लय-मेष्यति। सर्वं जगदिदं त्वयि प्रत्येति। त्वं भूमि-रापोऽ-नलोऽ-निलो नभः। त्वं चत्वारि वाक्-पदानि।।५।।

❑➧त्वं गुणत्रयातीतः। त्वं कालत्रयातीतः। त्वं देहत्रयातीतः। त्वं मूलाधारस्थितोऽसि नित्यम्। त्वं शक्तित्रयात्मकः। त्वां योगिनो ध्यायन्ति नित्यम्। त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवः स्वरोम्।।६।।
❍ त्वं गुण-त्रयातीतः। त्वं काल-त्रयातीतः। त्वं देह-त्रयातीतः। त्वं मूलाधार-स्थितोऽसि नित्यम्। त्वं शक्ति-त्रयात्मकः। त्वां योगिनो ध्यायन्ति नित्यम्। त्वं ब्रह्मा त्वं विष्णुस्-त्वं रुद्रस्-त्वमिन्द्रस्-त्वमग्निस्-त्वं वायुस्-त्वं सूर्यस्-त्वं चन्द्रमास्-त्वं ब्रह्म भूर्भुवः स्वरोम्।।६।।

❑➧गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम्। अनुस्वारः परतरः। अर्धेन्दुलसितम्। तारेण रुद्धम्। एतत्तव मनुस्वरूपम्। गकारः पूर्वरूपम्। अकारो मध्यमरूपम्। अनुस्वारश्चान्त्यरूपम्। बिन्दुरुत्तररूपम्। नादः सन्धानम्। संहिता सन्धिः। सैषा गणेशविद्या। गणक ऋषिः निचृद् गायत्री छन्दः। गणपतिर्देवता। ॐ गं गणपतये नमः।।७।।
❍ गणादिं पूर्व-मुच्चार्य वर्णादिं तद-नन्तरम्। अनुस्वारः परतरः। अर्धेन्दु-लसितम्। तारेण रुद्धम्। एतत्-तव मनु-स्वरूपम्। गकारः पूर्व-रूपम्। अकारो मध्यम-रूपम्। अनुस्वारश्-चान्त्य-रूपम्। बिन्दु-रुत्तर-रूपम्। नादः सन्धानम्। संहिता सन्धिः। सैषा गणेश-विद्या। गणक ऋषिः निचृद् गायत्री छन्दः। गणपतिर्-देवता। ॐ गं गणपतये नमः।।७।।

❑➧एकदन्ताय विद्महे वक्रतुण्डाय धीमहि।
तन्नो दन्ती प्रचोदयात्।।८।।
❍ एक-दन्ताय विद्महे वक्र-तुण्डाय धीमहि।
तन्नो दन्ती प्रचोदयात्।।८।।

❑➧एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम्।
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्।।
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम्।
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम्।।
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम्।
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम्।।
एवं ध्यायति यो नित्यं स योगी योगिनां वरः।।९।।
❍ एकदन्तं चतुर्हस्तं पाश-मङ्कुश-धारिणम्।
रदं च वरदं हस्तैर्-बिभ्राणं मूषक-ध्वजम्।।
रक्तं लम्बोदरं शूर्प-कर्णकं रक्त-वाससम्।
रक्त-गन्धानु-लिप्ताङ्गं रक्त-पुष्पैः सुपूजितम्।।
भक्तानु-कम्पिनं देवं जगत्कारण-मच्युतम्।
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्-परम्।।
एवं ध्यायति यो नित्यं स योगी योगिनां वरः।।९।।

❑➧नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय श्रीवरदमूर्तये नमः।।१०।।
❍ नमो व्रात-पतये नमो गण-पतये नमः प्रमथ-पतये नमस्तेऽस्तु लम्बोदरा-यैक-दन्ताय विघ्न-नाशिने शिव-सुताय श्री-वरद-मूर्तये नमः।।१०।।

❑➧एतदथर्वशीर्षं योऽधीते। स ब्रह्मभूयाय कल्पते। स सर्वविघ्नैर्न बाध्यते। स सर्वतः सुखमेधते स पञ्चमहापापात्प्रमुच्यते। सायमधीयानो दिवसकृतं पापं नाशयति। प्रातरधीयानो रात्रिकृतं पापं नाशयति। सायं प्रातः प्रयुञ्जानो अपापो भवति। सर्वत्राधीयानोऽपविघ्नो भवति धर्मार्थकाममोक्षं च विन्दति। इदम् अथर्वशीर्षमशिष्याय न देयम्। यो यदि मोहाद्दास्यति स पापीयान् भवति। सहस्रावर्तनाद् यं यं काममधीते तं तमनेन साधयेत्।।११।।
❍ एतद-थर्व-शीर्षं योऽधीते। स ब्रह्म-भूयाय कल्पते। स सर्व-विघ्नैर्न बाध्यते। स सर्वतः सुख-मेधते स पञ्च-महापापात्-प्रमुच्यते। सायम-धीयानो दिवस-कृतं पापं नाशयति। प्रातर-धीयानो रात्रि-कृतं पापं नाशयति। सायं प्रातः प्रयुञ्जानो अपापो भवति। सर्वत्रा-धीयानोऽप-विघ्नो भवति धर्मार्थ-काम-मोक्षं च विन्दति। इदम् अथर्वशीर्ष-मशिष्याय न देयम्। यो यदि मोहाद्-दास्यति स पापीयान् भवति। सहस्रा-वर्तनाद् यं यं कामम-धीते तं तमनेन साधयेत्।।११।।

❑➧अनेन गणपतिमभिषिञ्चति स वाग्मी भवति। चतुर्थ्यामनश्नञ्जपति स विद्यावान् भवति। इत्यथर्वणवाक्यं। ब्रह्माद्यावरणं विद्यात्। न बिभेति कदाचनेति।।१२।।
❍ अनेन गणपतिम-भिषिञ्चति स वाग्मी भवति। चतुर्थ्या-मनश्-नञ्जपति स विद्यावान् भवति। इत्यथर्वण-वाक्यं। ब्रह्मा-द्यावरणं विद्यात्। न बिभेति कदाचनेति।।१२।।

❑➧यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति। यो लाजैर्यजति स यशोवान् भवति। स मेधावान् भवति। यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति। यः साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते।।१३।।
❍ यो दूर्वाङ्कुरैर्-यजति स वैश्रवणो-पमो भवति। यो लाजैर्-यजति स यशोवान् भवति। स मेधावान् भवति। यो मोदक-सहस्रेण यजति स वाञ्छित-फलम-वाप्नोति। यः साज्य-समिद्-भिर्यजति स सर्वं लभते स सर्वं लभते।।१३।

❑➧अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति। सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति। महाविघ्नात् प्रमुच्यते। महापापात् प्रमुच्यते। महादोषात प्रमुच्यते। स सर्वविद् भवति। स सर्वविद् भवति। य एवं वेद।।१४।।
❍ अष्टौ ब्राह्मणान् सम्यग्-ग्राहयित्वा सूर्य-वर्चस्वी भवति। सूर्य-ग्रहे महा-नद्यां प्रतिमा-सन्निधौ वा जप्त्वा सिद्ध-मन्त्रो भवति। महा-विघ्नात् प्रमुच्यते। महा-पापात् प्रमुच्यते। महा-दोषात् प्रमुच्यते। स सर्वविद् भवति। स सर्वविद् भवति। य एवं वेद।।१४।।

।।इत्युपनिषत्।।

● शान्तिपाठ ●

❑➧ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवाᳬंसस्तनूभिर्व्यशेम देवहितं यदायुः।।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु।।
ॐ शान्तिः! शान्तिः!! शान्तिः!!!
❍ ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्ये-माक्ष-भिर्य-जत्राः।
स्थिरै-रङ्गैस्-तुष्टुवाᳬं-सस्तनू-भिर्व्य-शेम देव-हितं यदायुः।।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्-दधातु।।
ॐ शान्तिः! शान्तिः!! शान्तिः!!!

3 Comments

  1. Shivanshu Verma April 20, 2020
  2. VIKASH KUMAR May 6, 2020
  3. Surya October 2, 2020

Leave a Reply