देव्यपराधक्षमापनस्तोत्रम् का पाठ प्रायः देवी उपासना में हुई भूल के प्रति किया जाता है। शंकराचार्य द्वारा रचित प्रत्येक स्तोत्र अपने आपमें अद्भुत और अद्वितीय है। उनकी रचना का लय यदि समझ में आ जाये तो कितना भी कठिन स्तोत्र हो उसे सरलतापूर्वक पढ़ा जा सकता है।
www.sugamgyaansangam.com
सुगम ज्ञान संगम के अध्यात्म + स्तोत्र संग्रह के इस पोस्ट में छोटे शब्दों की सहायता से आप इसे बड़ी आसानी से पढ़ सकते हैं। पढ़ते समय हमें जहाँ रुकना है, वहाँ अल्पविराम दर्शाया गया। प्रामाणिकता के तौर मूलमन्त्र भी दिये गये हैं, जो गीताप्रेस गोरखपुर से प्रकाशित देवीस्तोत्र रत्नाकर पर आधारित हैं।
देव्यपराधक्षमापनस्तोत्रम्
(❑➧मूलमन्त्र ❍लघुशब्द)
❑➧न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः।
न जाने मुद्रास्ते तदपि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम्।।१।।
❍ न मन्त्रं नो यन्त्रं, तदपि च न जाने स्तुति महो
न चाह्वानं ध्यानं, तदपि च न जाने स्तुति कथाः।
न जाने मुद्रास्ते, तदपि च न जाने विलपनं
परं जाने मातस्, त्वदनु सरणं क्लेश हरणम्।।१।।
❑➧विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत्।
तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।।२।।
❍ विधेर ज्ञानेन, द्रविण विरहेणा लसतया
विधेया शक्यत्वात्, तव चरणयोर्या च्युतिरभूत्।
तदेतत् क्षन्तव्यं, जननि सकलो द्धारिणि शिवे
कुपुत्रो जायेत, क्वचि दपि कुमाता न भवति।।२।।
❑➧पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
परं तेषां मध्ये विरलतरलोऽहं तव सुतः।
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।।३।।
❍ पृथिव्यां पुत्रास्ते, जननि बहवः सन्ति सरलाः
परं तेषां मध्ये, विरल तरलोऽहं तव सुतः।
मदीयोऽयं त्यागः, समुचित मिदं नो तव शिवे
कुपुत्रो जायेत, क्वचि दपि कुमाता न भवति।।३।।
❑➧जगन्मातर्मातस्तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया।
तथापि त्वं स्नेहं मयि निरूपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।।४।।
❍ जगन्मातर् मातस्, तव चरण सेवा न रचिता
न वा दत्तं देवि, द्रविण मपि भूयस् तव मया।
तथापि त्वं स्नेहं, मयि निरूपमं यत् प्रकुरुषे
कुपुत्रो जायेत, क्वचि दपि कुमाता न भवति।।४।।
❑➧परित्यक्ता देवा विविधविधिसेवाकुलतया
मया पञ्चाशीतेरधिकमपनीते तु वयसि।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम्।।५।।
❍ परि त्यक्ता देवा, विविध विधि सेवा कुलतया
मया पञ्चाशीते, रधिक मपनीते तु वयसि।
इदानीं चेन्मातस्, तव यदि कृपा नापि भविता
निरालम्बो लम्बो, दर जननि कं यामि शरणम्।।५।।
❑➧श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः।
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
जनः को जानीते जननि जपनीयं जपविधौ।।६।।
❍ श्वपाको जल्पाको, भवति मधुपाको पम गिरा
निरातङ्को रङ्को, विहरति चिरं कोटि कनकैः।
तवापर्णे कर्णे, विशति मनु वर्णे फल मिदं
जनः को जानीते, जननि जपनीयं जप विधौ।।६।।
❑➧चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम्।।७।।
❍ चिता भस्मा लेपो, गरल मशनं दिक्पट धरो
जटाधारी कण्ठे, भुजग पतिहारी पशुपतिः।
कपाली भूतेशो, भजति जगदीशैक पदवीं
भवानि त्वत् पाणि, ग्रहण परिपाटी फल मिदम्।।७।।
❑➧न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
न ज्ञानापेक्षा शशिमुखी सुखेच्छापि न पुनः।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः।।८।।
❍ न मोक्षस्या काङ्क्षा, भव विभव वाञ्छापि च न मे
न विज्ञाना पेक्षा, शशि मुखि सुखेच्छापि न पुनः।
अतस् त्वां संयाचे, जननि जननं यातु मम वै
मृडानी रुद्राणी, शिव शिव भवानीति जपतः।।८।।
❑➧नाराधितासि विधिना विविधोपचारैः
किं रुक्षचिन्तनपरैर्न कृतं वचोभिः।
श्यामे त्वमेव यदि किञ्चन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव।।९।।
❍ नारा धितासि विधिना विविधो पचारैः
किं रुक्ष चिन्तन परैर्न कृतं वचोभिः।
श्यामे त्वमेव यदि किञ्चन मय्यनाथे
धत्से कृपा मुचित मम्ब परं तवैव।।९।।
❑➧आपत्सु मग्नः स्मरणं त्वदीयं
करोमि दुर्गे करुणार्णवेशि।
नैतच्छठत्वं मम भावयेथाः
क्षुधातृषार्ता जननीं स्मरन्ति।।१०।।
❍ आपत्सु मग्नः स्मरणं त्वदीयं
करोमि दुर्गे करुणार्ण वेशि।
नैतच्छठ त्वं मम भावयेथाः
क्षुधा तृषार्ता जननीं स्मरन्ति।।१०।।
❑➧जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि।
अपराध परम्परावृतं न हि माता समुपेक्षते सुतम्।।११।।
❍ जगदम्ब विचित्रमत्र किं
परिपूर्णा करुणास्ति चेन्मयि।
अपराध परम्परा वृतं न हि
माता समुपेक्षते सुतम्।।११।।
❑➧मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि।
एवं ज्ञात्वा महादेवि यथा योग्यं तथा कुरु।।१२।।
❍ मत्समः पातकी नास्ति
पापघ्नी त्वत् समा न हि।
एवं ज्ञात्वा महादेवि
यथा योग्यं तथा कुरु।।१२।।
इति श्रीमच्छङ्कराचार्यकृतं देव्यपराधक्षमापनस्तोत्रम्।