शिवमहिम्न बोलना सीखें SHIV MAHIMNA STOTRA LYRICS

शिवमहिम्न बोलना सीखें

SHIV MAHIMNA STOTRA LYRICS

शिवमहिम्नः स्तोत्र की रचना शिखरिणी छन्द के आधार पर हुई है। जो शिवभक्त इसका नित्य पाठ करते हैं, वे गन्धर्वराज पुष्पदन्त की कथा से अवगत ही होंगे।

www.sugamgyaansangam.com
सुगम ज्ञान संगम के अध्यात्म + स्तोत्र संग्रह स्तम्भ (Category) के इस लेख में शिवमहिम्नः स्तोत्र के ४३ मूलश्लोक के साथ लघुशब्द भी दिये गये हैं, जिसे देखकर आप इसे सरलतापूर्वक बोल सकते हैं।

ध्यान दें- ❍लघुशब्द का अर्थ है ❑➧मूल श्लोक के बड़े शब्दों का उच्चारण न बदलते हुए उन्हें पढ़ने की दृष्टि से छोटे-छोटे रूप में दर्शाना ताकि उसे देखकर पाठकगण सरलतापूर्वक उच्चारण कर सकें। ये शब्दों का सन्धि-विच्छेदन नहीं है; क्योंकि सन्धि-विच्छेद से उच्चारण में दोष आने की सम्भावना बनी रहती है। स्तोत्र के अन्त में pdf उपलब्ध है।

❀ शिव महिम्नःस्तोत्रं ❀
(❑➧मूल श्लोक ❍लघुशब्द)

❑➧महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः।
अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन्
ममाप्येष स्तोत्रे हर निरपवादः परिकरः।।१।।
❍ महिम्नः पारं ते, परम विदुषो यद्य सदृशी
स्तुतिर् ब्रह्मादी ना, मपि तदवसन् नास्त्वयि गिरः।
अथा वाच्यः सर्वः, स्वमति परिणामा वधि गृणन्
ममा प्येष स्तोत्रे, हर निरपवादः परिकरः।।१।।

❑➧अतीतः पन्थानं तव च महिमा वाङ्मनसयो
रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि।
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः।।२।।
❍ अतीतः पन्थानं, तव च महिमा वाङ् मनसयो
रतद्व्या वृत्त्या यं, चकित मभि धत्ते श्रुति रपि।
स कस्य स्तोतव्यः, कति विध गुणः कस्य विषयः
पदे त्वर् वाचीने, पतति न मनः कस्य न वचः।।२।।

❑➧मधु स्फीता वाचः परमममृतं निर्मित वत
स्तव ब्रह्मन् किं वागपि सुर गुरोर्विस्मय पदम्।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थेस्मिन् पुर मथन बुद्धिर् व्यवसिता।।३।।
❍ मधु स्फीता वाचः, परमम मृतं निर्मित वत
स्तव ब्रह्मन् किं वा, गपि सुर गुरोर् विस्मय पदम्।
मम त्वेतां वाणीं, गुण कथन पुण्येन भवतः
पुनामी त्यर्थे स्मिन्, पुर मथन बुद्धिर् व्यवसिता।।३।।

❑➧तवैश्वर्यं यत् तज्जगदुदयरक्षाप्रलयकृत्
त्रयीवस्तुव्यस्तं, तिसृषु गुण भिन्नासु तनुषु।
अभव्यानामस्मिन् वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः।।४।।
❍ तवैश्वर्यं यत् तज्, जगदु दय रक्षा प्रलय कृत्
त्रयी वस्तु व्यस्तं, तिसृषु गुण भिन्नासु तनुषु।
अभव्या नाम स्मिन्, वरद रमणी याम रमणीं
विहन्तुं व्याक्रोशीं, विदधत इहैके जडधियः।।४।।

❑➧किमीहः किं कायः स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च।
अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः
कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः।।५।।
❍ किमीहः किं कायः, स खलु किमुपायस् त्रिभुवनं
किमाधारो धाता, सृजति किमुपादान इति च।
अतर्क्यै श्वर्ये त्वय्, यनवसर दुःस्थो हत धियः
कुतर्कोऽयं कांश्चिन्, मुखर यति मोहाय जगतः।।५।।

❑➧अजन्मानो लोकाः किमवयववन्तोऽपि जगता
मधिष्ठातारं किं भवविधिरनादृत्य भवति।
अनीशो वा कुर्याद् भुवनजनने कः परिकरो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे।।६।।
❍ अजन्मानो लोकाः, किमवय ववन्तोऽपि जगता
मधिष्ठा तारं किं, भव विधिरना दृत्य भवति।
अनीशो वा कुर्याद्, भुवन जनने कः परिकरो
यतो मन्दास् त्वां प्रत्, यमर वर संशेरत इमे।।६।।

❑➧त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च।
रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव।।७।।
❍ त्रयी साङ्ख्यं योगः, पशुपति मतं वैष्णव मिति
प्रभिन्ने प्रस्थाने, परमिद मदः पथ्य मिति च।
रुचीनां वैचित्र्या, दृजु कुटिल नाना पथ जुषां
नृणा मेको गम्यस्, त्वमसि पय सामर्णव इव।।७।।

❑➧महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः
कपालं चेतीयत्तव वरद तन्त्रो पकरणम्।
सुरास्तां तामृद्धिं दधति च भवद्भ्रूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति।।८।।
❍ महोक्षः खट्वाङ्गं, परशु रजिनं भस्म फणिनः
कपालं चेतीयत्, तव वरद तन्त्रो पकरणम्।
सुरास्तां तामृद्धिं, दधति च भवद् भ्रू प्रणिहितां
न हि स्वात्मा रामं, विषय मृग तृष्णा भ्रमयति।।८।।

❑➧ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं
परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये।
समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव
स्तुवञ्जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता।।९।।
❍ ध्रुवं कश्चित् सर्वं, सकलम परस् त्व ध्रुव मिदं
परो ध्रौव्या ध्रौव्ये, जगति गदति व्यस्त विषये।
समस्ते ऽप्ये तस्मिन्, पुरमथन तैर् विस्मित इव
स्तुवञ्जि ह्रेमि त्वां, न खलु ननु धृष्टा मुखरता।।९।।

❑➧तवैश्वर्यं यत्नाद् यदुपरि विरिञ्चिर्हरिरधः
परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः।
ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ।।१०।।
❍ तवैश्वर्यं यत्नाद्, यदुपरि विरिञ्चिर् हरि रधः
परिच्छेत्तुं याता, वनल मनल स्कन्ध वपुषः।
ततो भक्ति श्रद्धा, भर गुरु गृणद् भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां, तव किमनु वृत्तिर्न फलति।।१०।।

❑➧अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं
दशास्यो यद् बाहूनभृत रणकण्डूपरवशान्।
शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेः
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम्।।११।।
❍ अयत्नादा पाद्य, त्रिभुवनम वैर व्यति करं
दशास्यो यद् बाहू, न भृत रण कण्डू परवशान्।
शिरः पद्म श्रेणी, रचित चरणाम्भो रुह बलेः
स्थिरा यास्त्वद् भक्तेस्, त्रिपुरहर विस्फूर्जित मिदम्।।११।।

❑➧अमुष्य त्वत्सेवासमधिगतसारं भुजवनं
बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः।।
अलभ्यापातालेऽप्यलसचलिताङ्गुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः।।१२।।
❍ अमुष्य त्वत् सेवा, समधि गत सारं भुजवनं
बलात् कैलासेऽपि, त्वदधि वसतौ विक्रमयतः।
अलभ्या पातालेऽ, प्यल सचलि ताङ्गुष्ठ शिरसि
प्रतिष्ठा त्वय्या सीद्, ध्रुव मुपचितो मुह्यति खलः।।१२।।

❑➧यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सती
मधश्चक्रे बाणः परिजनविधेयत्रिभुवनः।
र्न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयो
न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः।।१३।।
❍ यदृद्धिं सुत्राम्णो, वरद परमोच्चै रपि सती
मधश् चक्रे बाणः, परिजन विधेय त्रिभुवनः।
न तच् चित्रं तस्मिन्, वरि वसि तरि त्वच् चरणयोर्
न कस्या प्युन् नत्यै, भवति शिरसस् त्वय्य वनतिः।।१३।।

❑➧अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा
विधेयस्यासीद्यस्त्रिनयनविषं संहृतवतः।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः।।१४।।
❍ अकाण्ड ब्रह्माण्ड, क्षय चकित देवासुर कृपा
विधे यस्या सीद्यस्, त्रिनयन विषं संहृतवतः।
स कल्माषः कण्ठे, तव न कुरुते न श्रिय महो
विकारोऽपि श्लाघ्यो, भुवन भय भङ्ग व्यसनिनः।।१४।।

❑➧असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः।।१५।।
❍ असिद्धार्था नैव, क्वचिदपि सदेवा सुर नरे
निवर्तन्ते नित्यं, जगति जयिनो यस्य विशिखाः।
स पश्यन् नीश त्वा, मितर सुर साधारणम भूत्
स्मरः स्मर्त व्यात्मा, न हि वशिषु पथ्यः परिभवः।।१५।।

❑➧मही पादाघाताद् व्रजति सहसा संशयपदं
पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम्।
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृतजटाताडिततटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता।।१६।।
❍ मही पादा घाताद्, व्रजति सहसा संशय पदं
पदं विष्णोर् भ्राम्यद्, भुज परिघ रुग्ण ग्रह गणम्।
मुहुर्द्योर् दौस्थ्यं या, त्यनि भृत जटा ताडित तटा
जगद् रक्षायै त्वं, नटसि ननु वामैव विभुता।।१६।।

❑➧वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते।
जगद् द्वीपाकारं जलधिवलयं तेन कृतमि
त्येनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः।।१७।।
❍ वियद् व्यापी तारा, गण गुणित फेनोद् गम रुचिः
प्रवाहो वारां यः, पृषत लघु दृष्टः शिरसि ते।
जगद् द्वीपाकारं, जलधि वलयं तेन कृतमि
त्येने नैवोन् नेयं, धृत महिम दिव्यं तव वपुः।।१७।।

❑➧रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति।
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर विधि
र्विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः।।१८।।
❍ रथः क्षोणी यन्ता, शत धृतिर गेन्द्रो धनुरथो
रथाङ्गे चन्द्रार्कौ, रथ चरण पाणिः शर इति।
दिध क्षोस्ते कोऽयं, त्रिपुर तृण माडम्बर विधिर्
विधेयैः क्रीडन्त्यो, न खलु परतन्त्राः प्रभु धियः।।१८।।

❑➧हरिस्ते साहस्रं कमल बलिमाधाय पदयो
र्यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् ।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषः
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम्।।१९।।
❍ हरिस्ते साहस्रं, कमल बलि माधाय पदयोर्
यदे कोने तस्मिन्, निज मुद हरन् नेत्र कमलम्।
गतो भक्त्यु द्रेकः, परि णति मसौ चक्र वपुषा
त्रयाणां रक्षायै, त्रिपुर हर जागर्ति जगताम्।।१९।।

❑➧क्रतौ सुप्ते जाग्रत् त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवं
श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसु जनः।।२०।।
❍ क्रतौ सुप्ते जाग्रत्, त्वमसि फल योगे क्रतु मतां
क्व कर्म प्रध्वस्तं, फलति पुरुषा राधन मृते।
अतस्त्वां सम्प्रेक्ष्य, क्रतुषु फल दान प्रति भुवं
श्रुतौ श्रद्धां बद्ध्वा, दृढ परिकरः कर्मसु जनः।।२०।।

❑➧क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां
ऋषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः।
क्रतुभ्रेशस्त्वत्तः क्रतुफलविधानव्यसनिनः
ध्रुवं कर्तुः श्रद्धा विधुरमभिचाराय हि मखाः।।२१।।
❍ क्रिया दक्षो दक्षः, क्रतु पतिर धीश स्तनु भृता
मृषी णामार् त्विज्यं, शरणद सदस्याः सुर गणाः।
क्रतु भ्रेशस् त्वत्तः, क्रतु फल विधान व्यसनिनो
ध्रुवं कर्तुः श्रद्धा, विधुर मभि चाराय हि मखाः।।२१।।

❑➧प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः।।२२।।
❍ प्रजा नाथं नाथ, प्रस भम भिकं स्वां दुहितरं
गतं रोहिद् भूतां, रिर मयिषु मृष्यस्य वपुषा।
धनुष्पाणेर् यातं, दिवमपि सपत्रा कृत ममुं
त्रसन्तं तेऽद्यापि, त्यजति न मृग व्याध रभसः।।२२।

❑➧स्वलावण्याशंसाधृतधनुषमह्नाय तृणवत्
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि।
यदि स्त्रैणं देवी यमनिरत देहार्धघटना
दवैति त्वामद्धा बत वरद मुग्धा युवतयः।।२३।।
❍ स्व लावण्या शंसा, धृत धनुष मह् नाय तृणवत्
पुरः प्लुष्टं दृष्ट्वा, पुर मथन पुष्पा युध मपि।
यदि स्त्रैणं देवी, यम निरत देहार्ध घटना
दवैति त्वामद्धा, बत वरद मुग्धा युव तयः।।२३।।

❑➧श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचरा
श्चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः।
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तॄणां वरद परमं मङ्गलमसि।।२४।।
❍ श्मशाने ष्वा क्रीडा, स्मर हर पिशाचाः सहचराश्
चिता भस्मालेपः, स्रगपि नृक रोटी परिकरः।
अमङ्गल्यं शीलं, तव भवतु नामैव मखिलं
तथापि स्मर् तॄणां, वरद परमं मङ्गल मसि।।२४।।

❑➧मनः प्रत्यक्चित्ते सविधमविधायात्तमरुतः
प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः।
यदालोक्याह्लादं ह्रद इव निमज्ज्यामृतमये
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान्।।२५।।
❍ मनः प्रत्यक् चित्ते, सविधम विधायात्त मरुतः
प्रहृष्य द्रोमाणः, प्रमद सलिलोत् सङ्गि तदृशः।
यदा लोक्या ह्लादं, ह्रद इव निमज्ज्या मृत मये
दधत् यन्तस् तत्त्वं, किमपि यमिनस् तत् किल भवान्।।२५।।

❑➧त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह
स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि।।२६।।
❍ त्वमर्कस् त्वं सोमस्, त्वमसि पवनस् त्वं हुत वहस्
त्वमापस् त्वं व्योम, त्वमु धरणि रात्मा त्वमिति च।
परिच्छिन्ना मेवं, त्वयि परिणता बिभ्रति गिरं
न विद्मस्तत् तत्त्वं, वय मिह तु यत्त्वं न भवसि।।२६।।

❑➧त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा
नकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः
समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम्।।२७।।
❍ त्रयीं तिस्रो वृत्तीस्, त्रिभुवन मथो त्रीनपि सुरा
नकाराद्यैर् वर्णैस्, त्रिभिर भिद धत् तीर्ण विकृति।
तुरीयं ते धाम, ध्वनि भिरवरुन् धान मणुभिः
समस्तं व्यस्तं त्वां, शरणद गृणा त्योमिति पदम्।।२७।।

❑➧भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहान्
स्तथा भीमेशानाविति यदभिधानाष्टकमिदम्।
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मैधाम्ने प्रविहितनमस्योऽस्मि भवते।।२८।।
❍ भवः शर्वो रुद्रः, पशुपति रथोग्रः सह महान्
स्तथा भीमेशाना, विति यदभि धानाष्टक मिदम्।
अमुष्मिन् प्रत्येकं, प्रवि चरति देव श्रुतिरपि
प्रिया यास्मै धाम्ने, प्रवि हित नमस्योऽस्मि भवते।।२८।।

❑➧नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः।
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो
नमः सर्वस्मै ते तदिदमिति शर्वाय च नमः।।२९।।
❍ नमो नेदिष्ठाय, प्रिय दव दविष्ठाय च नमो
नमः क्षोदिष्ठाय, स्मर हर महिष्ठाय च नमः।
नमो वर्षिष्ठाय, त्रिनयन यविष्ठाय च नमो
नमः सर्वस्मै ते, तदिद मिति शर्वाय च नमः।।२९।।

❑➧बहुलरजसे विश्वोत्पत्तौ भवाय नमो नम
प्रबलतमसे तत्संहारे हराय नमो नमः।
जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः।।३०।।
❍ बहुल रजसे विश्वोत् पत्तौ भवाय नमो नमः
प्रबल तमसे तत् संहारे हराय नमो नमः।
जन सुख कृते सत्त्वो द्रिक्तौ मृडाय नमो नमः
प्रम हसि पदे निस्त्रै गुण्ये शिवाय नमो नमः।।३०।।

❑➧कृशपरिणति चेतः क्लेशवश्यं क्व चेदं
क्व च तव गुणसीमोल्लङ्घिनी शश्वदृद्धिः।
इति चकितममन्दीकृत्य मां भक्तिराधाद्
वरद चरणयोस्ते वाक्यपुष्पोपहारम्।।३१।।
❍ कृश परिणति चेतः क्लेश वश्यं क्व चेदं
क्व च तव गुण सीमोल्लङ्घिनी शश्व दृद्धिः।
इति चकित ममन्दी कृत्य मां भक्ति राधाद्
वरद चरण योस्ते वाक्य पुष्पो पहारम्।।३१।।

❑➧असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रे
सुरतरुवरशाखा लेखनी पत्रमुर्वी।
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति।।३२।।
❍ असित गिरि समं स्यात् कज्जलं सिन्धु पात्रे
सुर तरुवर शाखा लेखनी पत्र मुर्वी।
लिखति यदि गृहीत्वा शारदा सर्व कालं
तदपि तव गुणाना मीश पारं न याति।।३२।।

❑➧असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले
र्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य।
सकलगणवरिष्ठः पुष्पदन्ताभिधानो
रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार।।३३।।
❍ असुर सुर मुनीन्द्रै रर्चित स्येन्दु मौलेर्
ग्रथित गुण महिम्नो निर्गुणस्ये श्वरस्य।
सकल गण वरिष्ठः पुष्प दन्ता भिधानो
रुचिरम लघु वृत्तैः स्तोत्र मेतच्च कार।।३३।।

❑➧अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्
पठति परमभक्त्या शुद्धचित्तः पुमान् यः।
स भवति शिवलोके रुद्रतुल्यस्तथात्र
प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश्च।।३४।।
❍ अहर हरन वद्यं धूर्जटेः स्तोत्र मेतत्
पठति परम भक्त्या शुद्ध चित्तः पुमान् यः।
स भवति शिव लोके रुद्र तुल्यस् तथात्र
प्रचुर तर धनायुः पुत्रवान् कीर्तिमांश्च।।३४।।

❑➧महेशान्नापरो देवो महिम्नो नापरा स्तुतिः।
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम्।।३५।।
❍ महेशान् नापरो देवो महिम्नो नापरा स्तुतिः।
अघोरान् नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम्।।३५।।

❑➧दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः।
महिम्नः स्तवपाठस्य कलां नार्हन्ति षोडशीम्।।३६।।
❍ दीक्षा दानं तपस् तीर्थं ज्ञानं यागादिकाः क्रियाः।
महिम्नः स्तव पाठस्य कलां नार्हन्ति षोडशीम्।।३६।।

❑➧कुसुमदशननामा सर्वगन्धर्वराजः
शिशुशशिधरवरमौलेर्देवदेवस्य दासः।
स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्
स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्नः।।३७।।
❍ कुसुम दशन नामा सर्व गन्धर्व राजः
शिशु शशि धर वर मौलेर् देव देवस्य दासः।
स खलु निज महिम्नो भ्रष्ट एवास्य रोषात्
स्तवन मिदम कार्षीद् दिव्य दिव्यं महिम्नः।।३७।।

❑➧सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं
पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः।
व्रजति शिवसमीपं किन्नरैः स्तूयमानः
स्तवनमिदममोघं पुष्पदन्तप्रणीतम्।।३८।।
❍ सुरवर मुनि पूज्यं स्वर्ग मोक्षैक हेतुं
पठति यदि मनुष्यः प्राञ्जलिर् नान्य चेताः।
व्रजति शिव समीपं किन्नरैः स्तूय मानः
स्तवन मिदम मोघं पुष्पदन्त प्रणीतम्।।३८।।

❑➧आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम्।
अनौपम्यं मनोहारि शिवमीश्वरवर्णनम्।।३९।।
❍ आसमाप्त मिदं स्तोत्रं पुण्यं गन्धर्व भाषितम्।
अनौपम्यं मनोहारि शिवमीश्वरवर्णनम्।।३९।।

❑➧इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः ।
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ।।४०।।
❍ इत्येषा वाङ्मयी पूजा श्रीमच्छङ्कर पादयोः ।
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ।।४०।।

❑➧तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर।
यादृशोऽसि महादेव तादृशाय नमो नमः।।४१।।
❍ तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर।
यादृशोऽसि महादेव तादृशाय नमो नमः।।४१।।

❑➧एककालं द्विकालं वा त्रिकालं यः पठेन्नरः।
सर्वपापविनिर्मुक्तः शिवलोके महीयते ।।४२।।
❍ एक कालं द्वि कालं वा त्रिकालं यः पठेन् नरः।
सर्व पाप विनिर्मुक्तः शिव लोके महीयते।।४२।।

❑➧श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन
स्तोत्रेण किल्बिषहरेण हरप्रियेण।
कण्ठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेशः।।४३।।
❍ श्रीपुष्पदन्त मुख पङ्कज निर्गतेन
स्तोत्रेण किल्बिष हरेण हर प्रियेण।
कण्ठ स्थितेन पठितेन समा हितेन
सुप्रीणितो भवति भूतपतिर् महेशः।।४३।।

।। इति श्रीपुष्पदन्तविरचितं शिवमहिम्नः स्तोत्रं सम्पूर्णम्।।

12 Comments

  1. tofdupefe January 25, 2023
  2. tofdupefe February 4, 2023
  3. slotsite March 18, 2023
  4. propecia April 23, 2023
  5. dewa89 April 24, 2023
  6. Viagra sans ordonnance April 26, 2023
  7. tinyblogging.com May 3, 2023
  8. openstreetmap.org May 3, 2023
  9. kamagra 100 mg May 11, 2023
  10. website May 15, 2023
  11. kamagraespana.quest May 17, 2023
  12. Idecy May 18, 2023

Leave a Reply