सूर्य अथर्वशीर्षम्
भगवान् सूर्य प्रत्यक्ष देवता हैं, इनकी आराधना से आरोग्य की प्राप्ति होती है। सूर्याथर्वशीर्षम् भगवान् सूर्य की कृपा पाने के लिये बड़ा ही सुगम साधन है।
अथर्वशीर्ष-परम्परा में सूर्याथर्वशीर्ष परिमाण की दृष्टि से लघुकाय है, परन्तु इसका महत्त्व व्यापक है। सौर-उपासना में यह कल्पवृक्ष के समान ही है। इसके अन्तर्गत सूर्य गायत्री मन्त्र के अतिरिक्त भगवान सूर्य के अष्टाक्षर मन्त्र ‘ॐ घृणिः सूर्य आदित्योम्’ का भी अमित माहात्म्य वर्णित है।
जो इसका जाप करता है, उसे नाना लौकिक तथा पारलौकिक सुखों की प्राप्ति सम्भव है। इसके जप से जहाँ महापातकों से भी मुक्ति प्राप्त होती है, वहीं वेद विद्या की प्राप्ति के साथ सैकड़ों यज्ञों के करने का फल भी प्राप्त होता। इतना ही नहीं, मुहूर्त-विशेष (सूर्य सम्बन्धित विशेष तिथियों) में इसके जप से महामृत्यु से भी तरा जा सकता है।
मूलमन्त्र गीताप्रेस से प्रकाशित किताब पंचदेव अथर्वशीर्ष संग्रह पर आधारित हैं। पोस्ट के अन्त में PDF उपलब्ध है।
सूर्याथर्वशीर्षम्
● शान्तिपाठ ●
❑➧ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवाᳬंसस्तनूभिर्व्यशेम देवहितं यदायुः।।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु।।
ॐ शान्तिः! शान्तिः!! शान्तिः!!!
❍ ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्ये-माक्षभिर्य-जत्राः।
स्थिरै-रङ्गैस्-तुष्टुवाᳬं-सस्तनू-भिर्व्य-शेम देव-हितं यदायुः।।
स्वस्ति न इन्द्रो वृद्ध-श्रवाः स्वस्ति नः पूषा विश्व-वेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्-दधातु।।
ॐ शान्तिः! शान्तिः!! शान्तिः!!!
❑➧हरिः ॐ।। अथ सूर्याथर्वाङ्गिरसं व्याख्यास्यामः। ब्रह्मा ऋषिः। गायत्री छन्दः। आदित्यो देवता । हंस: सोऽहमग्निनारायणयुक्तं बीजम्। हृल्लेखा शक्तिः। वियदादिसर्गसंयुक्तं कीलकम्। चतुर्विधपुरुषार्थसिद्धयर्थे विनियोगः।
❍ हरिः ॐ।।
अथ सूर्या-थर्वाङ्गि-रसं व्याख्या-स्यामः।
ब्रह्मा ऋषिः। गायत्री छन्दः। आदित्यो देवता।
हंस: सोऽह-मग्नि-नारायण-युक्तं बीजम्।
हृल्लेखा शक्तिः। वियदादि-सर्ग-संयुक्तं कीलकम्।
चतुर्विध-पुरुषार्थ-सिद्धयर्थे विनियोगः।
❑➧षट्स्वरारूढेन बीजेन षडङ्गं रक्ताम्बुजसंस्थितम्। सप्ताश्वरथिनं हिरण्यवर्णं चतुर्भुजं पद्मद्वयाभयवरदहस्तं कालचक्रप्रणेतारं श्रीसूर्यनारायणं य एवं वेद स वै ब्राह्मणः।
❍ षट्स्वरा-रूढेन बीजेन षडङ्गं रक्ताम्बुज-संस्थितम्।
सप्ताश्व-रथिनं हिरण्य-वर्णं चतुर्भुजं
पद्म-द्वया-भय-वरद-हस्तं काल-चक्र-प्रणेतारं
श्री-सूर्य-नारायणं य एवं वेद स वै ब्राह्मणः।
❑➧ॐ भूर्भुवः स्वः। ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात्।
❍ ॐ भूर्भुवः स्वः। ॐ तत्-सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात्।
❑➧सूर्य आत्मा जगतस्तस्थुषश्च। सूर्याद्वै खल्विमानि भूतानि जायन्ते। सूर्याद्यज्ञःपर्जन्योऽन्नमात्मा। नमस्त आदित्य त्वमेव केवलं कर्मकर्तासि। त्वमेव प्रत्यक्षं ब्रह्मासि। त्वमेव प्रत्यक्ष विष्णुरसि। त्वमेव प्रत्यक्ष रुद्रोऽसि। त्वमेव प्रत्यक्षमृगसि। त्वमेव प्रत्यक्षं यजुरसि। त्वमेव प्रत्यक्षं सामासि। त्वमेव प्रत्यक्षमथर्वासि। त्वमेव सर्वं छन्दोऽसि। आदित्याद्वायुर्जायते। आदित्याद् भूमिर्जायते। आदित्यादापो जायन्ते। आदित्याज्ज्योतिर्जायते। आदित्याद् व्योम दिशो जायन्ते। आदित्याद्देवा जायन्ते। आदित्याद्वेदा जायन्ते। आदित्यो वा एष एतन्मण्डलं तपति। असावादित्यो ब्रह्म। आदित्योऽन्तःकरणमनोबुद्धिचित्ताहंकाराः। आदित्यो वै व्यानः समानोदानोपानः प्राणः। आदित्यो वै श्रोत्रत्वक्चक्षूरसनघ्राणाः। आदित्यो वै वाक्पाणिपादपायूपस्थाः। आदित्यो वै शब्दस्पर्शरूपरसगन्धाः। आदित्यो वै वचनादानागमनविसर्गानन्दाः। आनन्दमयो ज्ञानमयो विज्ञानमय आदित्यः। नमो मित्रायभानवे मृत्योर्मां पाहि भ्राजिष्णवे विश्वहेतवे नमः। सूर्याद् भवन्ति भूतानि सूर्येण पालितानि तु। सूर्ये लयं प्राप्नुवन्ति यः सूर्यः सोऽहमेव च। चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः। चक्षुर्धाता दधातु नः। आदित्याय विद्महे सहस्रकिरणाय धीमहि। तन्नः सूर्यः प्रचोदयात्।
❍ सूर्य आत्मा जगतस्-तस्थुषश्च।
सूर्याद्वै खल्वि-मानि भूतानि जायन्ते।
सूर्याद्-यज्ञः-पर्जन्योऽन्न-मात्मा।
नमस्त आदित्य त्वमेव केवलं कर्म-कर्तासि।
त्वमेव प्रत्यक्षं ब्रह्मासि।
त्वमेव प्रत्यक्षं विष्णुरसि।
त्वमेव प्रत्यक्षं रुद्रोऽसि।
त्वमेव प्रत्यक्ष-मृगसि।
त्वमेव प्रत्यक्षं यजुरसि।
त्वमेव प्रत्यक्षं सामासि।
त्वमेव प्रत्यक्ष-मथर्वासि।
त्वमेव सर्वं छन्दोऽसि।
आदित्याद्-वायुर्-जायते।
आदित्याद् भूमिर्-जायते।
आदित्या-दापो जायन्ते।
आदित्याज्-ज्योतिर्-जायते।
आदित्याद् व्योम दिशो जायन्ते।
आदित्याद्-देवा जायन्ते।
आदित्याद्-वेदा जायन्ते।
आदित्यो वा एष एतन्-मण्डलं तपति। असा-वादित्यो ब्रह्म।
आदित्यो-ऽन्तः-करण-मनो-बुद्धि-चित्ता-हंकाराः।
आदित्यो वै व्यानः समानो-दानो-पानः प्राणः।
आदित्यो वै श्रोत्रत्-वक्-चक्षू-रसन-घ्राणाः।
आदित्यो वै वाक्-पाणिपाद-पायू-पस्थाः।
आदित्यो वै शब्द-स्पर्श-रूप-रस-गन्धाः।
आदित्यो वै वचना-दाना-गमन-विसर्गा-नन्दाः।
आनन्दमयो ज्ञानमयो विज्ञानमय आदित्यः।
नमो मित्राय-भानवे मृत्योर्मां पाहि भ्रा-जिष्णवे विश्व-हेतवे नमः।
सूर्याद् भवन्ति भूतानि सूर्येण पालितानि तु।
सूर्ये लयं प्राप्नु-वन्ति यः सूर्यः सोऽहमेव च।
चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः।
चक्षुर्धाता दधातु नः।
आदित्याय विद्महे सहस्र-किरणाय धीमहि। तन्नः सूर्यः प्रचोदयात्।
❑➧सविता पश्चात्तात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात्। सविता नः सुवतुसर्वतातिं सविता नो रासतां दीर्घमायुः।
❍ सविता पश्चात्-तात्-सविता पुरस्तात्-सवितोत्-तरात्-तात्-सविता-धरात्-तात्। सविता नः सुवतु-सर्वतातिं सविता नो रासतां दीर्घमायुः।
❑➧ओमित्येकाक्षरं ब्रह्म घृणिरिति द्वे अक्षरे। सूर्य इत्यक्षरद्वयम्। आदित्य इति त्रीण्यक्षराणि। एतस्यैव सूर्यस्याष्टाक्षरो मनुः।
❍ ओमित्ये-काक्षरं ब्रह्म घृणिरिति द्वे अक्षरे।
सूर्य इत्यक्षर-द्वयम्।
आदित्य इति त्रीण्यक्षराणि।
एतस्यैव सूर्य-स्याष्टा-क्षरो मनुः।
❑➧यः सदाहरहर्जपति स वै ब्राह्मणो भवति। स वै ब्राह्मणो भवति। सूर्याभिमुखो जप्त्वा महाव्याधिभयात्प्रमुच्यते। अलक्ष्मीर्नश्यति। अभक्ष्यभक्षणात् पूतो भवति। अगम्यागमनात्पूतो भवति। पतितसम्भाषणात्पूतो भवति। असत्सम्भाषणात्पूतो भवति। मध्याह्ने सूर्याभि मुखः पठेत्। सद्योत्पन्नपञ्चमहापातकात्प्रमुच्यते। सैषां सावित्रीं विद्यां न किञ्चिदपि न कस्मैचित्प्रशंसयेत्। य एतां महाभागः प्रातः पठति स भाग्यवाञ्जायते। पशून् विन्दति। वेदार्थाँल्लभते। त्रिकालमेतज्जप्त्वा क्रतुशतफलमवाप्नोति। यो हस्तादित्ये जपति स महामृत्युं तरति। स महामृत्युं तरति। य एवं वेद।। इत्युपनिषत्।।
❍ यः सदाहर-हर्-जपति स वै ब्राह्मणो भवति।
स वै ब्राह्मणो भवति।
सूर्याभिमुखो जप्त्वा महा-व्याधि-भयात्-प्रमुच्यते।
अलक्ष्मीर्-नश्यति।
अभक्ष्य-भक्षणात् पूतो भवति।
अगम्या-गमनात्-पूतो भवति।
पतित-सम्भाषणात्-पूतो भवति।
असत्-सम्भाषणात्-पूतो भवति।
मध्याह्ने सूर्याभि मुखः पठेत्।
सद्योत्पन्न-पञ्च-महापातकात्-प्रमुच्यते।
सैषां सावित्रीं विद्यां न किञ्चिदपि न कस्मैचित्-प्रशंसयेत्।
य एतां महाभागः प्रातः पठति स भाग्य-वाञ्जायते।
पशून् विन्दति।
वेदार्थाँल्-लभते।
त्रिकाल-मेतज्-जप्त्वा क्रतु-शत-फलम-वाप्नोति।
यो हस्तादित्ये जपति स महा-मृत्युं तरति।
स महामृत्युं तरति।
य एवं वेद।
।।इत्युपनिषत्।।
● शान्तिपाठ ●
❑➧ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवाᳬंसस्तनूभिर्व्यशेम देवहितं यदायुः।।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु।।
ॐ शान्तिः! शान्तिः!! शान्तिः!!!
❍ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्ये-माक्षभिर्य-जत्राः।
स्थिरै-रङ्गैस्-तुष्टुवाᳬं-सस्तनू-भिर्व्य-शेम देव-हितं यदायुः।।
स्वस्ति न इन्द्रो वृद्ध-श्रवाः स्वस्ति नः पूषा विश्व-वेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्-दधातु।।
ॐ शान्तिः! शान्तिः!! शान्तिः!!!
Very well written article. It will be useful to anybody who employess it, including yours truly :). Keep doing what you are doing – can’r wait to read more posts.
Really clear web site, thanks for this post.
Yay google is my king assisted me to find this outstanding site! .