Durga Saptashati Chapter-1

Durga Saptashati Chapter-1

[मूल❑➧श्लोक गीताप्रेस गोरखपुर से प्रकाशित दुर्गासप्तशती पर आधारित हैं। लघु❍शब्द पढ़ने में सहायक सिद्ध होगा।] पोस्ट के अन्त में PDF उपलब्ध है।

।।श्री दुर्गायै नमः।।

श्रीदुर्गासप्तशती
प्रथमोऽध्यायः

[ मेधा ऋषि का राजा सुरथ और समाधि को भगवती की महिमा बताते हुए मधु-कैटभ के वध का प्रसंग सुनाना ]

विनियोगः
❑➧ॐ प्रथमचरित्रस्य ब्रह्मा ऋषिः, महाकाली देवता, गायत्री छन्दः, नन्दा शक्तिः, रक्तदन्तिका बीजम्, अग्निस्तत्त्वम्, ऋग्वेदः स्वरूपम्, श्रीमहाकालीप्रीत्यर्थे प्रथमचरित्रजपे विनियोगः।
❍ॐ प्रथम चरित्रस्य ब्रह्मा ऋषिः, महाकाली देवता, गायत्री छन्दः, नन्दा शक्तिः, रक्त दन्तिका बीजम्, अग्निस् तत्त्वम्, ऋग्वेदः स्वरूपम्, श्री महाकाली प्रीत्यर्थे प्रथम चरित्र जपे विनियोगः।

ध्यानम्
❑➧ॐ खड्‌गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम्।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्‍तुं मधुं कैटभम्।।
❍ॐ खड्‌गं चक्र गदेषु चाप परिघाञ्छूलं भुशुण्डीं शिरः
शङ्खं सन्द धतीं करैस् त्रिनयनां सर्वाङ्ग भूषा वृताम्।
नीलाश्म द्युति मास्य पाद दशकां सेवे महा कालिकां
यामस् तौत् स्वपिते हरौ कमलजो हन्‍तुं मधुं कैटभम्।।

ॐ नमश्चण्डिकायै
‘ॐ ऐं’ मार्कण्डेय उवाच।।१।।
❑➧सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः।
निशामय तदुत्पत्तिं विस्तराद् गदतो मम।।२।।
❍ सावर्णिः सूर्य तनयो
यो मनुः कथ्यते-ऽष्टमः।
निशामय तदुत्-पत्तिं
विस्तराद् गदतो मम।।

❑➧महामायानुभावेन यथा मन्वन्‍तराधिपः।
स बभूव महाभागः सावर्णिस्तनयो रवेः।।३।।
❍ महा-मायानु भावेन
यथा मन्वन्‍तरा धिपः।
स बभूव महा भागः
सावर्णिस्-तनयो रवेः।।

❑➧स्वारोचिषेऽन्‍तरे पूर्वं चैत्रवंशसमुद्भवः।
सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले।।४।।
❍ स्वारो चिषे-ऽन्‍तरे पूर्वं
चैत्र-वंश समुद्-भवः।
सुरथो नाम राजा-भूत्-
समस्ते क्षिति-मण्डले।।

❑➧तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान्।
बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा।।५।।
❍ तस्य पालयतः सम्यक्
प्रजाः पुत्रा निवौरसान्।
बभूवुः शत्रवो भूपाः
कोला विध्वंसिनस्-तदा।।

❑➧तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः।
न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः।।६।।
❍ तस्य तैर भवद् युद्ध-
मति प्रबल दण्डिनः।
न्यूनै-रपि स तैर्युद्धे
कोला-विध्वंसि-भिर्जितः।।

❑➧ततः स्वपुरमायातो निजदेशाधिपोऽभवत्।
आक्रान्‍तः स महाभागस्तैस्तदा प्रबलारिभिः।।७।।
❍ ततः स्वपुर मायातो
निज देशा धिपो-ऽभवत्।
आक्रान्‍तः स महा-भागस्
तैस्तदा प्रबला-रिभिः।।

❑➧अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः।
कोशो बलं चापहृतं तत्रापि स्वपुरे ततः।।८।।
❍ अमात्यैर्-बलिभिर्-दुष्टैर्-
दुर्बलस्य दुरात्मभिः।
कोशो बलं चापहृतं
तत्रापि स्वपुरे ततः।।

❑➧ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः।
एकाकी हयमारुह्य जगाम गहनं वनम्।।९।।
❍ ततो मृगया-व्याजेन
हृत स्वाम्यः स भूपतिः।
एकाकी हय मारुह्य
जगाम गहनं वनम्।।

❑➧स तत्राश्रममद्राक्षीद् द्विजवर्यस्य मेधसः।
प्रशान्‍तश्‍वापदाकीर्णं मुनिशिष्योपशोभितम्।।१०।।
❍ स तत्राश्रम मद्राक्षीद्
द्विज-वर्यस्य मेधसः।
प्रशान्‍तश्‍वा पदाकीर्णं
मुनि-शिष्योप-शोभितम्।।

❑➧तस्थौ कंचित्स कालं च मुनिना तेन सत्कृतः।
इतश्‍चेतश्‍च विचरंस्तस्मिन्मुनिवराश्रमे।।११।।
❍ तस्थौ कंचित्स कालं च
मुनिना तेन सत्कृतः।
इतश्-चेतश्‍च विचरंस्-
तस्मिन्-मुनि-वराश्रमे।।

❑➧सोऽचिन्‍तयत्तदा तत्र ममत्वाकृष्टचेतनः।
मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत्।।१२।।
❍ सो-ऽचिन्‍तयत्-तदा तत्र
ममत्वा-कृष्ट-चेतनः।
मत्-पूर्वैः पालितं पूर्वं
मया हीनं पुरं हि तत्।।

❑➧मद्‌भृत्यैस्तैरसद्‌वृत्तैर्धर्मतः पाल्यते न वा।
न जाने स प्रधानो मे शूरहस्ती सदामदः।।१३।।
❍ मद्‌-भृत्यैस्-तैर-सद्‌वृत्तैर्
धर्मतः पाल्यते न वा।
न जाने स प्रधानो मे
शूर-हस्ती सदामदः।।

❑➧मम वैरिवशं यातः कान् भोगानुपलप्स्यते।
ये ममानुगता नित्यं प्रसादधनभोजनैः।।१४।।
❍ मम वैरि वशं यातः
कान् भोगानु पलप्स्यते।
ये ममा नुगता नित्यं
प्रसाद धन भोजनैः।।

❑➧अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम्।
असम्यग्व्यशीलैस्तैः कुर्वद्भिः सततं व्ययम्।।१५।।
❍अनु वृत्तिं ध्रुवं तेऽद्य
कुर्वन्त्यन्य मही भृताम्।
असम्यग्व्य शीलैस्तैः
कुर्वद्भिः सततं व्ययम्।।

❑➧संचितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति।
एतच्चान्यच्च सततं चिन्तयामास पार्थिवः।।१६।।
❍संचितः सोऽति दुःखेन
क्षयं कोशो गमिष्यति।
एतच् चान्यच्च सततं
चिन्तया मास पार्थिवः।।

❑➧तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः।
स पृष्टस्तेन कस्त्वं भो हेतुश्‍चागमनेऽत्र कः।।१७।।
❍तत्र विप्रा श्रमाभ्याशे
वैश्य मेकं ददर्श सः।
स पृष्टस्तेन कस्त्वं भो
हेतुश्‍चा गमनेऽत्र कः।।

❑➧सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे।
इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम्।।१८।।
❍सशोक इव कस्मात् त्वं
दुर्मना इव लक्ष्यसे।
इत्या कर्ण्य वचस् तस्य
भूपतेः प्रणयो दितम्।।

❑➧प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम्।।१९।।
❍प्रत्युवाच स तं वैश्यः
प्रश्रया वनतो नृपम्।।

वैश्‍य उवाच।।२०।।
❑➧समाधिर्नाम वैश्‍योऽहमुत्पन्नो धनिनां कुले।।२१।।
❍समाधिर् नाम वैश्‍यो
ऽहमुत्पन्नो धनिनां कुले।।

❑➧पुत्रदारैर्निरस्तश्‍च धनलोभादसाधुभिः।
विहीनश्‍च धनैर्दारैः पुत्रैरादाय मे धनम्।।२२।।
❍पुत्र दारैर् निरस्तश्‍च
धन लोभाद साधुभिः।
विहीनश्‍च धनैर् दारैः
पुत्रै रादाय मे धनम्।।

❑➧वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः।
सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम्।।२३।।
❍वन मभ्यागतो दुःखी
निरस्तश् चाप्त बन्धुभिः।
सोऽहं न वेद्मि पुत्राणां
कुशला कुशलात्मिकाम्।।

❑➧प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः।
किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम्।।२४।।
❍प्रवृत्तिं स्व जनानां च
दाराणां चात्र संस्थितः।
किं नु तेषां गृहे क्षेम
मक्षेमं किं नु साम्प्रतम्।।

❑➧कथं ते किं नु सद्‌वृत्ता दुर्वृत्ताः किं नु मे सुताः।।२५।।
❍कथं ते किं नु सद्‌ वृत्ता
दुर् वृत्ताः किं नु मे सुताः।।

राजोवाच।।२६।।
❑➧यैर्निरस्तो भवाँल्लुब्धैः पुत्रदारादिभिर्धनैः।।२७।।
❍यैर्निरस्तो भवाँल् लुब्धैः
पुत्र दारादि-भिर्धनैः।।

❑➧तेषु किं भवतः स्नेहमनुबध्नाति मानसम्।।२८।।
❍तेषु किं भवतः स्नेह
मनु बध्नाति मानसम्।।

वैश्य उवाच।।२९।।
❑➧एवमेतद्यथा प्राह भवानस्मद्‌गतं वचः।।३०।।
❍एव मेतद् यथा प्राह
भवानस्मद्‌ गतं वचः।।

❑➧किं करोमि न बध्नाति मम निष्ठुरतां मनः।
यैः संत्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः।।३१।।
❍किं करोमि न बध्नाति
मम निष्ठुरतां मनः।
यैः संत्यज्य पितृ स्नेहं
धन लुब्धैर् निराकृतः।।

❑➧पतिस्वजनहार्दं च हार्दि तेष्वेव मे मनः।
किमेतन्नाभिजानामि जानन्नपि महामते।।३२।।
❍पति स्वजन हार्दं च
हार्दि तेष्वेव मे मनः।
किमेतन् नाभि जानामि
जानन् नपि महामते।।

❑➧यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु।
तेषां कृते मे निःश्‍वासो दौर्मनस्यं च जायते।।३३।।
❍यत्प्रेम प्रवणं चित्तं
विगुणेष्वपि बन्धुषु।
तेषां कृते मे निःश्‍वासो
दौर्मनस्यं च जायते।।

❑➧करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम्।।३४।।
❍करोमि किं यन्न मनस्
तेष्व प्रीतिषु निष्ठुरम्।।

मार्कण्डेय उवाच।।३५।।
❑➧ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ।।३६।।
❍ततस्तौ सहितौ विप्र
तं मुनिं समुपस्थितौ।।

❑➧समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः।
कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम्।।३७।।
❍समाधिर् नाम वैश्योऽसौ
स च पार्थिव सत्तमः।
कृत्वा तु तौ यथा न्यायं
यथार्हं तेन संविदम्।।

❑➧उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्‍यपार्थिवौ।।३८।।
❍उप विष्टौ कथाः काश्चिच्
चक्रतुर् वैश्‍य पार्थिवौ।।

राजोवाच।।३९।।
❑➧भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत्।।४०।।
❍भगवंस्त्वा महं प्रष्टु
मिच्छाम्येकं वदस्व तत्।।

❑➧दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना।
ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि।।४१।।
❍दुःखाय यन्मे मनसः
स्वचित्ता यत्ततां विना।
ममत्वं गत राज्यस्य
राज्याङ्गेष्व खिलेष्वपि।।

❑➧जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम।
अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः।।४२।।
❍जानतोऽपि यथा ज्ञस्य
किमेतन्मुनि सत्तम।
अयं च निकृतः पुत्रैर्
दारैर् भृत्यै स्तथो ज्झितः।।

❑➧स्वजनेन च संत्यक्तस्तेषु हार्दी तथाप्यति।
एवमेष तथाहं च द्वावप्यत्यन्तदुःखितौ।।४३।।
❍स्वजनेन च संत्यक्त
स्तेषु हार्दी तथाप्यति।
एव मेष तथाहं च
द्वावप्य त्यन्त दुःखितौ।।

❑➧दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ।
तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि।।४४।।
❍दृष्ट दोषेऽपि विषये
ममत्वा कृष्ट मानसौ।
तत्किमे तन् महाभाग
यन्मोहो ज्ञानिनो रपि।।

❑➧ममास्य च भवत्येषा विवेकान्धस्य मूढता।।४५।।
❍ममास्य च भवत्येषा
विवेकान् धस्य मूढता।।

ऋषिरुवाच।।४६।।
❑➧ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे।।४७।।
❍ज्ञानमस्ति समस् तस्य
जन्तोर् विषय गोचरे।।

❑➧विषयश्च महाभाग याति चैवं पृथक् पृथक्।
दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे।।४८।।
❍विषयश्च महाभाग
याति चैवं पृथक् पृथक्।
दिवान्धाः प्राणिनः केचि
द्रात्रावन् धास्तथा परे।।

❑➧केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः।
ज्ञानिनो मनुजाः सत्यं किं तु ते न हि केवलम्।।४९।।
❍केचिद् दिवा तथा रात्रौ
प्राणिनस् तुल्य दृष्टयः।
ज्ञानिनो मनुजाः सत्यं
किं तु ते न हि केवलम्।।

❑➧यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः।
ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम्।।५०।।
❍यतो हि ज्ञानिनः सर्वे
पशु पक्षि मृगादयः।
ज्ञानं च तन् मनुष्याणां
यत्तेषां मृग पक्षिणाम्।।

❑➧मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः।
ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु।।५१।।
❍मनुष्याणां च यत् तेषां
तुल्य मन्यत् तथो भयोः।
ज्ञानेऽपि सति पश्यैतान्
पतङ्गाञ्छाव चञ्चुषु।।

❑➧कणमोक्षादृतान्मोहात्पीड्यमानानपि क्षुधा।
मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति।।५२।।
❍कण मोक्षा दृतान् मोहात्
पीड्य मानानपि क्षुधा।
मानुषा मनुज व्याघ्र
साभिलाषाः सुतान् प्रति।।

❑➧लोभात्प्रत्युपकाराय नन्वेतान् किं न पश्‍यसि।
तथापि ममतावर्त्ते मोहगर्ते निपातिताः।।५३।।
❍लोभात् प्रत्युपकाराय
नन्वेतान् किं न पश्‍यसि।
तथापि ममतावर्त्ते
मोहगर्ते निपातिताः।।

❑➧महामायाप्रभावेण संसारस्थितिकारिणा।
तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः।।५४।।
❍महा माया प्रभावेण
संसार स्थिति कारिणा।
तन्नात्र विस्मयः कार्यो
योग निद्रा जगत्पतेः।।५४।।

❑➧महामाया हरेश्‍चैषा तया सम्मोह्यते जगत्।
ज्ञानिनामपि चेतांसि देवी भगवती हि सा।।५५।।
❍महामाया हरेश्‍चैषा
तया सम्मोह्यते जगत्।
ज्ञानिना मपि चेतांसि
देवी भगवती हि सा।।

❑➧बलादाकृष्य मोहाय महामाया प्रयच्छति।
तया विसृज्यते विश्‍वं जगदेतच्चराचरम्।।५६।।
❍बलादा कृष्य मोहाय
महामाया प्रयच्छति।
तया विसृज्यते विश्‍वं
जगदेतच् चराचरम्।।

❑➧सैषा प्रसन्ना वरदा नृणां भवति मुक्तये।
सा विद्या परमा मुक्तेर्हेतुभूता सनातनी।।५७।।
❍सैषा प्रसन्ना वरदा
नृणां भवति मुक्तये।
सा विद्या परमा मुक्तेर्
हेतु भूता सनातनी।।

❑➧संसारबन्धहेतुश्‍च सैव सर्वेश्‍वरेश्‍वरी।।५८।।
❍संसार बन्ध हेतुश्‍च
सैव सर्वेश्‍व रेश्‍वरी।।

राजोवाच।।५९।।
❑➧भगवन् का हि सा देवी महामायेति यां भवान्।।६०।।
❍भगवन् का हि सा देवी
महा मायेति यां भवान्।।

❑➧ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज।
यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा।।६१।।
❍ब्रवीति कथ मुत्पन्ना
सा कर्मास्याश्च किं द्विज।
यत् प्रभावा च सा देवी
यत् स्वरूपा यदुद् भवा।।

❑➧तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर।।६२।।
❍तत् सर्वं श्रोतु मिच्छामि
त्वत्तो ब्रह्म विदां वर।।

ऋषिरुवाच।।६३।।
❑➧नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम्।।६४।।
❍नित्यैव सा जगन् मूर्तिस्
तया सर्वमिदं ततम्।।

❑➧तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम।
देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा।।६५।।
❍तथापि तत् समुत्पत्तिर्
बहुधा श्रूयतां मम।
देवानां कार्य सिद्ध्यर्थ
माविर्भवति सा यदा।।

❑➧उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते।
योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते।।६६।।
❍उत्पन्नेति तदा लोके
सा नित्याप्यभि धीयते।
योग निद्रां यदा विष्णुर्
जगत्येकार्ण वीकृते।।

❑➧आस्तीर्य शेषमभजत्कल्पान्‍ते भगवान् प्रभुः।
तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ।।६७।।
❍आस्तीर्य शेषमभजत्
कल्पान्‍ते भगवान् प्रभुः।
तदा द्वावसुरौ घोरौ
विख्यातौ मधु कैटभौ।।

❑➧विष्णुकर्णमलोद्भूतौ हन्‍तुं ब्रह्माणमुद्यतौ।
स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः।।६८।।
❍विष्णु कर्ण मलोद् भूतौ
हन्‍तुं ब्रह्माण मुद्यतौ।
स नाभि कमले विष्णोः
स्थितो ब्रह्मा प्रजापतिः।।

❑➧दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम्।
तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः।।६९।।
❍दृष्ट्वा तावसुरौ चोग्रौ
प्रसुप्तं च जनार्दनम्।
तुष्टाव योग निद्रां ता
मेकाग्र हृदय स्थितः।।६९।।

❑➧विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम्।
विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्।।७०।।
❍विबोध नार्थाय हरेर्
हरि नेत्र कृतालयाम्।
विश्वेश्वरीं जगद् धात्रीं
स्थिति संहार कारिणीम्।।

❑➧निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः।।७१।।
❍निद्रां भगवतीं विष्णोर
तुलां तेजसः प्रभुः।।

ब्रह्मोवाच।।७२।।
❑➧त्वं स्वाहा त्वं स्वधां त्वं हि वषट्कारःस्वरात्मिका।।७३।।
❍त्वं स्वाहा त्वं स्वधां त्वं हि
वषट्कारः स्वरात्मिका।।

❑➧सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता।
अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः।।७४।।
❍सुधा त्वमक्षरे नित्ये
त्रिधा मात्रात्मिका स्थिता।
अर्धमात्रा स्थिता नित्या
यानुच् चार्या विशेषतः।।

❑➧त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा।
त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत्।।७५।।
❍त्वमेव सन्ध्या सावित्री
त्वं देवि जननी परा।
त्वयैतद् धार्यते विश्वं
त्वयैतत् सृज्यते जगत्।।

❑➧त्वयैतत्पाल्यते देवि त्वमत्स्यन्‍ते च सर्वदा।
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने।।७६।।
❍त्वयैतत् पाल्यते देवि
त्वमत्स्यन्‍ते च सर्वदा।
विसृष्टौ सृष्टि रूपा त्वं
स्थिति रूपा च पालने।।

❑➧तथा संहृतिरूपान्‍ते जगतोऽस्य जगन्मये।
महाविद्या महामाया महामेधा महास्मृतिः।।७७।।
❍तथा संहृति रूपान्‍ते
जगतोऽस्य जगन्मये।
महाविद्या महामाया
महामेधा महास्मृतिः।।

❑➧महामोहा च भवती महादेवी महासुरी।
प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी।।७८।।
❍महामोहा च भवती
महादेवी महासुरी।
प्रकृतिस् त्वं च सर्वस्य
गुण त्रय विभाविनी।।

❑➧कालरात्रिर्महारात्रिर्मोहरात्रिश्‍च दारुणा।
त्वं श्रीस्त्वमीश्‍वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा।।७९।।
❍काल रात्रिर् महा रात्रिर्
मोह रात्रिश्‍च दारुणा।
त्वं श्रीस् त्वमीश्‍वरी त्वं ह्रीस्
त्वं बुद्धिर् बोध लक्षणा।।

❑➧लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च।
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा।।८०।।
❍लज्जा पुष्टिस्तथा तुष्टिस्
त्वं शान्तिः क्षान्ति रेव च।
खड्गिनी शूलिनी घोरा
गदिनी चक्रिणी तथा।।

❑➧शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा।
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी।।८१।।
❍शङ्खिनी चापिनी बाण
भुशुण्डी परिघा युधा।
सौम्या सौम्यतरा शेष
सौम्येभ्यस् त्वति सुन्दरी।।

❑➧परापराणां परमा त्वमेव परमेश्‍वरी।
यच्च किंचित्क्वचिद्वस्तु सदसद्वाखिलात्मिके।।८२।।
❍परा पराणां परमा
त्वमेव परमेश्‍वरी।
यच्च किंचित् क्वचिद् वस्तु
सदसद् वखिलात्मिके।।

❑➧तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा।
यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत्।।८३।।
❍तस्य सर्वस्य या शक्तिः
सा त्वं किं स्तूयसे तदा।
यया त्वया जगत् स्रष्टा
जगत् पात्यत्ति यो जगत्।।

❑➧सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्‍वरः।
विष्णुः शरीरग्रहणमहमीशान एव च।।८४।।
❍सोऽपि निद्रावशं नीतः
कस्त्वां स्तोतुमिहेश्‍वरः।
विष्णुः शरीर ग्रहण
महमीशान एव च।।

❑➧कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्।
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता।।८५।।
❍कारि तास्ते यतोऽतस् त्वां
कः स्तोतुं शक्तिमान् भवेत्।
सा त्वमित्थं प्रभावैः
स्वैरु दारैर् देवि संस्तुता।।

❑➧मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ।
प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु।।८६।।
❍मोहयैतौ दुराधर्षा
वसुरौ मधुकैटभौ।
प्रबोधं च जगत् स्वामी
नीयता मच्युतो लघु।।

❑➧बोधश्‍च क्रियतामस्य हन्‍तुमेतौ महासुरौ।।८७।।
❍बोधश्‍च क्रियता मस्य
हन्‍तु मेतौ महासुरौ।।

ऋषिरुवाच।।८८।।
❑➧एवं स्तुता तदा देवी तामसी तत्र वेधसा।।८९।।
❍एवं स्तुता तदा देवी
तामसी तत्र वेधसा।।

❑➧विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ।
नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः।।९०।।
❍विष्णोः प्रबोधनार्थाय
निहन्तुं मधु कैटभौ।
नेत्रास्य नासिका बाहु
हृदयेभ्यस् तथोरसः।।

❑➧निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः।
उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः।।९१।।
❍निर्गम्य दर्शने तस्थौ
ब्रह्मणो ऽव्यक्त जन्मनः।
उत्तस्थौ च जगन्नाथस्
तया मुक्तो जनार्दनः।।

❑➧एकार्णवेऽहिशयनात्ततः स ददृशे च तौ।
मधुकैटभो दुरात्मानावतिवीर्यपराक्रमौ।।९२।।
❍एकार्णवे ऽहिशयनात्
ततः स ददृशे च तौ।
मधु कैटभो दुरात्माना
वति वीर्य पराक्रमौ।।

❑➧क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ।
समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः।।९३।।
❍क्रोध रक्ते क्षणा वत्तुं
ब्रह्माणं जनितो द्यमौ।
समुत्थाय ततस् ताभ्यां
युयुधे भगवान् हरिः।।

❑➧पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः।
तावप्यतिबलोन्मत्तौ महामायाविमोहितौ।।९४।।
❍पञ्च वर्ष सहस्राणि
बाहु प्रहरणो विभुः।
तावप्यति बलोन्मत्तौ
महामाया विमोहितौ।।

❑➧उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम्।।९५।।
❍उक्त वन्तौ वरो ऽस्मत्तो
व्रियता मिति केशवम्।।

श्रीभगवानुवाच।।९६।।
❑➧भवेतामद्य मे तुष्टौ मम वध्यावुभावपि।।९७।।
❍भवेता मद्य मे तुष्टौ
मम वध्या वुभावपि।।

❑➧किमन्येन वरेणात्र एतावद्धि वृतं मम।।९८।।
❍किमन्येन वरेणात्र
एतावद्धि वृतं मम।।

ऋषिरुवाच।।९९।।
❑➧वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत्।।१००।।
❍वञ्चिताभ्या मिति तदा
सर्व मापो मयं जगत्।।

❑➧विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः।
आवां जहि न यत्रोर्वी सलिलेन परिप्लुता।।१०१।।
❍विलोक्य ताभ्यां गदितो
भगवान् कमलेक्षणः।
आवां जहि न यत्रोर्वी
सलिलेन परिप्लुता।।

ऋषिरुवाच।।१०२।।
❑➧तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता।
कृत्वा चक्रेण वै च्छिन्ने जघने शिरसी तयोः।।१०३।।
❍तथेत् युक्त्वा भगवता
शङ्ख चक्र गदा भृता।
कृत्वा चक्रेण वै च्छिन्ने
जघने शिरसी तयोः।।

❑➧एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम्।
प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते।।ऐं ॐ।।१०४।।
❍एव मेषा समुत् पन्ना
ब्रह्मणा संस्तुता स्वयम्।
प्रभाव मस्या देव्यास्तु
भूयः शृणु वदामि ते।।ऐं ॐ।।

❑➧श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये मधुकैटभवधो नाम प्रथमः ॐ तत्सत्।
❍श्री मार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये मधु कैटभ वधो नाम प्रथमः ॐ तत्सत्।

उवाच-१४; अर्धश्लोक-२४; श्लोक-६६
कुल-१०४

PDF DOWNLOAD☟

DURGASAPTSHATI CHAPTER 1 (SGS)