SRI VISHNU SAHASRANAAM STOTRAM
श्रीविष्णुसहस्रनामस्तोत्रम् में आये लघुशब्द मूलशब्दों का सन्धि-विच्छेदन नहीं है। केवल उच्चारण की दृष्टि से शब्दों का लघुरूप है।
मूल श्लोक गीताप्रेस गोरखपुर से प्रकाशित किताब श्रीविष्णुसहस्रनाम पर आधारित हैं।
।।अथ ध्यानम्।।
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णु भवभयहरं सर्वलोकैकनाथम्।।
||ॐ श्री परमात्मने नमः||
अथ श्रीविष्णुसहस्रनामस्तोत्रम्
❑➧वैशम्पायनो जनमेजयमुवाच
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत।।१।।
❍ श्रुत्वा धर्मान-शेषेण
पावनानि च सर्वशः।
युधिष्ठिरः शान्त-नवम्
पुनरे-वाभ्य-भाषत।।१।।
❑➧युधिष्ठिर उवाच
किमेकं दैवतं लोके किं वाप्येकं परायणम्।
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम्।।२।।
❍ किमेकम् दैवतम् लोके
किम् वाप्येकम् परायणम्।
स्तुवन्तः कम् कमर्चन्तः
प्राप्नु-युर्-मानवाः शुभम्।।२।।
❑➧को धर्मः सर्वधर्माणां भवतः परमो मतः।
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात्।।३।।
❍ को धर्मः सर्व-धर्माणाम्
भवतः परमो मतः।
किम् जपन्-मुच्यते जन्तुर्
जन्म-संसार-बन्धनात्।।३।।
❑➧श्री भीष्म उवाच
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम्।
स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः।।४।।
❍ जगत्-प्रभुम् देवदेव-
मनन्तम् पुरुषोत्तमम्।
स्तुवन्-नाम-सहस्रेण
पुरुषः सततोत्थितः।।४।।
❑➧तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम्।
ध्यायंस्तुवन्नमस्यंश्च यजमानस्तमेव च।।५।।
❍ तमेव चार्चयन्-नित्यम्
भक्त्या पुरुषम-व्ययम्।
ध्यायन्-स्तुवन्-नमस्यंश्च
यजमानस्-तमेव च।।५।।
❑➧अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम्।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत्।।६।।
❍ अनादि-निधनम् विष्णुम्
सर्व-लोक-महेश्वरम्।
लोका-ध्यक्षम् स्तुवन्-नित्यम्
सर्व-दुःखातिगो भवेत्।।६।।
❑➧ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम्।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम्।।७।।
❍ ब्रह्मण्यम् सर्व-धर्मज्ञम्
लोकानाम् कीर्ति-वर्धनम्।
लोकनाथम् महद्-भूतम्
सर्व-भूत-भवोद्-भवम्।।७।।
❑➧एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा।।८।।
❍ एष मे सर्व-धर्माणाम्
धर्मोऽधिक-तमो मतः।
यद्-भक्त्या पुण्डरी-काक्षम्
स्तवै-रर्चेन्-नरः सदा।।८।।
❑➧परमं यो महत्तेजः परमं यो महत्तपः।
परमं यो महद्ब्रह्म परमं यः परायणम्।।९।।
❍ परमम् यो महत्-तेजः
परमम् यो महत्-तपः।
परमम् यो महद्-ब्रह्म
परमम् यः परायणम्।।९।।
❑➧पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्।
दैवतं देवतानां च भूतानां योऽव्ययः पिता।।१०।।
❍ पवित्राणाम् पवित्रम् यो
मङ्गलानाम् च मङ्गलम्।
दैवतम् देवतानाम् च
भूतानाम् योऽव्ययः पिता।।१०।।
❑➧यतः सर्वाणि भूतानि भवन्त्यादियुगागमे।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये।।११।।
❍ यतः सर्वाणि भूतानि
भवन्त्यादि-युगागमे।
यस्मिंश्च प्रलयम् यान्ति
पुनरेव युग-क्षये।।११।।
❑➧तस्य लोकप्रधानस्य जगन्नाथस्य भूपते।
विष्णोर्नामसहस्रं मे शृणु पापभयापहम्।।१२।।
❍ तस्य लोक-प्रधानस्य
जगन्-नाथस्य भूपते।
विष्णोर्-नाम-सहस्रम् मे
शृणु पाप-भया-पहम्।।१२।।
❑➧यानि नामानि गौणानि विख्यातानि महात्मनः।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये।।१३।।
❍ यानि नामानि गौणानि
विख्यातानि महात्मनः।
ऋषिभिः परि-गीतानि
तानि वक्ष्यामि भूतये।।१३।।
अथ सहस्रनाम
❑➧ॐ विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः।।१४।।
❍ ॐ विश्वम् विष्णुर्-वषट्कारो
भूत-भव्य-भवत्-प्रभुः।
भूतकृद्-भूतभृद्-भावो
भूतात्मा भूत-भावनः।।१४।।
❑➧पूतात्मा परमात्मा च मुक्तानां परमा गतिः।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च।।१५।।
❍ पूतात्मा परमात्मा च
मुक्तानाम् परमा गतिः।
अव्ययः पुरुषः साक्षी
क्षेत्रज्ञो-ऽक्षर एव च।।१५।।
❑➧योगो योगविदां नेता प्रधानपुरुषेश्वरः।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः।।१६।।
❍ योगो योग-विदाम् नेता
प्रधान-पुरुषेश्वरः।
नारसिंहवपुः श्रीमान्
केशवः पुरुषोत्तमः।।१६।।
❑➧सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः।
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः।।१७।।
❍ सर्वः शर्वः शिवः स्थाणुर्-
भूतादिर्-निधिर-व्ययः।
सम्भवो भावनो भर्ता
प्रभवः प्रभु-रीश्वरः।।१७।।
❑➧स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः।
अनादिनिधनो धाता विधाता धातुरुत्तमः।।१८।।
❍ स्वयम्भूः शम्भु-रादित्यः
पुष्क-राक्षो महा-स्वनः।
अनादि-निधनो धाता
विधाता धातु-रुत्तमः।।१८।।
❑➧अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः।।१९।।
❍ अप्रमेयो हृषीकेशः
पद्मनाभो-ऽमर-प्रभुः।
विश्व-कर्मा मनुस्-त्वष्टा
स्थविष्ठः स्थविरो ध्रुवः।।१९।।
❑➧अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः।
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम्।।२०।।
❍ अग्राह्यः शाश्वतः कृष्णो
लोहिताक्षः प्रतर्दनः।
प्रभूतस्-त्रिक-कुब्धाम
पवित्रम् मङ्गलम् परम्।।२०।।
❑➧ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः।।२१।।
❍ ईशानः प्राणदः प्राणो
ज्येष्ठः श्रेष्ठः प्रजापतिः।
हिरण्य-गर्भो भूगर्भो
माधवो मधुसूदनः।।२१।।
❑➧ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्।।२२।।
❍ ईश्वरो विक्रमी धन्वी
मेधावी विक्रमः क्रमः।
अनुत्तमो दुराधर्षः
कृतज्ञः कृति-रात्मवान्।।२२।।
❑➧सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः।।२३।।
❍ सुरेशः शरणम् शर्म
विश्वरेताः प्रजाभवः।
अहः संवत्सरो व्यालः
प्रत्ययः सर्व-दर्शनः।।२३।।
❑➧अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः।।२४।।
❍ अजः सर्वेश्वरः सिद्धः
सिद्धिः सर्वादि-रच्युतः ।
वृषाकपि-रमेयात्मा
सर्व-योग-विनिःसृतः।।२४।।
❑➧वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः।।२५।।
❍ वसुर्-वसुमनाः सत्यः
समात्माऽ-सम्मितः समः।
अमोघः पुण्डरी-काक्षो
वृष-कर्मा वृषा-कृतिः।।२५।।
❑➧रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः।
अमृतः शाश्वत स्थाणुर्वरारोहो महातपाः।।२६।।
❍ रुद्रो बहुशिरा बभ्रुर्-
विश्व-योनिः शुचिश्रवाः।
अमृतः शाश्वत स्थाणुर्-
वरारोहो महातपाः।।२६।।
❑➧सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः।।२७।।
❍ सर्वगः सर्वविद्-भानुर्-
विष्वक्-सेनो जनार्दनः।
वेदो वेदविद-व्यङ्गो
वेदाङ्गो वेदवित् कविः।।२७।।
❑➧लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः।।२८।।
❍ लोका-ध्यक्षः सुरा-ध्यक्षो
धर्मा-ध्यक्षः कृताकृतः।
चतुरात्मा चतुर्व्यूहश्-
चतुर्दंष्ट्रश्-चतुर्भुजः।।२८।।
❑➧भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः।।२९।।
❍ भ्राजिष्णुर्-भोजनम् भोक्ता
सहिष्णुर्-जगदादिजः।
अनघो विजयो जेता
विश्व-योनिः पुनर्वसुः।।२९।।
❑➧उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः।
अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः।।३०।।
❍ उपेन्द्रो वामनः प्रांशु-
रमोघः शुचि-रूर्जितः।
अतीन्द्रः सङ्ग्रहः सर्गो
धृतात्मा नियमो यमः।।३०।।
❑➧वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः।
अतीन्द्रियो महामायो महोत्साहो महाबलः।।३१।।
❍ वेद्यो वैद्यः सदा-योगी
वीरहा माधवो मधुः।
अतीन्द्रियो महामायो
महोत्-साहो महाबलः।।३१।।
❑➧महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक्।।३२।।
❍ महाबुद्धिर्-महावीर्यो
महाशक्तिर्-महाद्युतिः।
अनिर्देश्य-वपुः श्रीमान-
मेयात्मा महाद्रि-धृक्।।३२।।
❑➧महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः।।३३।।
❍ महेष्वासो महीभर्ता
श्रीनिवासः सताम् गतिः।
अनिरुद्धः सुरानन्दो
गोविन्दो गोविदाम् पतिः।।३३।।
❑➧मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः।।३४।।
❍ मरीचिर्द-मनो हंसः
सुपर्णो भुजगोत्तमः।
हिरण्यनाभः सुतपाः
पद्मनाभः प्रजापतिः।।३४।।
❑➧अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा।।३५।।
❍ अमृत्युः सर्वदृक् सिंहः
सन्धाता सन्धिमान् स्थिरः।
अजो दुर्-मर्षणः शास्ता
विश्रु-तात्मा सुरारिहा।।३५।।
❑➧गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः।।३६।।
❍ गुरुर्-गुरुतमो धाम
सत्यः सत्य-पराक्रमः।
निमिषोऽनिमिषः स्रग्वी
वाचस्पति-रुदारधीः।।३६।।
❑➧अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात्।।३७।।
❍ अग्रणीर्-ग्रामणीः श्रीमान्
न्यायो नेता समीरणः।
सहस्र-मूर्धा विश्वात्मा
सहस्राक्षः सहस्रपात्।।३७।।
❑➧आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः।
अहःसंवर्तको वह्निरनिलो धरणीधरः।।३८।।
❍ आवर्तनो निवृत्-तात्मा
संवृतः सम्-प्रमर्दनः।
अहः संवर्तको वह्नि-
रनिलो धरणी-धरः।।३८।।
❑➧सुप्रसादः प्रसन्नात्मा विश्वधृग् विश्वभुग् विभुः।
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः।।३९।।
❍ सुप्रसादः प्रसन्नात्मा
विश्व-धृग् विश्व-भुग् विभुः।
सत्कर्ता सत्कृतः साधुर्-
जह्नुर्-नारायणो नरः।।३९।।
❑➧असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः।
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः।।४०।।
❍ असङ्ख्येयो-ऽप्रमेयात्मा
विशिष्टः शिष्ट-कृच्छुचिः।
सिद्धार्थः सिद्ध-सङ्कल्पः
सिद्धिदः सिद्धि-साधनः।।४०।।
Sanjay ji Ye aapka bahut bahut dhanyvad aapki vajah se Humne bahut Kuchh bolna padhna na Sikha hai kripya apni Kitab ya books bhi sale karo han Agar aap Shrimad Bhagwat Geeta Jo k a 1 ek rashtriy Granth hai Ko bhi Ye aise hi banaen Tu Tu bahut Sare Hari Bhakt aapka ka Dhanyavad Karenge Jay Shri Hari Jay Shri Krishna
Pl give u r mobile number so as to send you full Vishnu Sahasranamam
.in u r whatsapp which we want to read & listen.my mobile number is 9422842137.
nee d pdf of satoraha please send pdf of all satotra , sahatanaama
Very simple for every one nicely written and spoken and very helpful to layman.Great ful to Sursangam.
please tell me how can i download as pdf
निःशुल्क डाउनलोड करें
श्रीविष्णुसहस्रनामस्तोत्रम् (लघुशब्द सहित)
https://sanjaysonkar.stores.instamojo.com/product/208478/shri-vishnusahasranaam-stotram/
જય શ્રી ક્રિષ્ના 🙏
Ham aapaka aabhari hai. Slow speed man gaya hai. Talbaddha sunai deta hai. Aapke sath 👬 ham bhi ga sakate hai. I congrats you
Thank you for making it easy to chant. _/\_
Thank u so much …really appreciate your effort..its very helpful 🙏
निःशुल्क डाउनलोड करें
श्रीविष्णुसहस्रनामस्तोत्रम् (लघुशब्द सहित)
https://sanjaysonkar.stores.instamojo.com/product/208478/shri-vishnusahasranaam-stotram/
Hello Sir need this pdf all strotam pls send in my mail id 2sulekha.hr@gmail.com
निःशुल्क डाउनलोड करें
श्रीविष्णुसहस्रनामस्तोत्रम् (लघुशब्द सहित)
https://sanjaysonkar.stores.instamojo.com/product/208478/shri-vishnusahasranaam-stotram/
Thank you sanjaybhai for providing this strotram
I want pdf version of this strotram
निःशुल्क डाउनलोड करें
श्रीविष्णुसहस्रनामस्तोत्रम् (लघुशब्द सहित)
https://sanjaysonkar.stores.instamojo.com/product/208478/shri-vishnusahasranaam-stotram/
Very nice, I am very grateful to you,
Kindly send PDF FILE
Sanjay sir please. Is shri Vishnu sahastra nam stotram. Ko mere is watsapp number par pdf m send kar. Dijjiiyee please 🙏🙏9643604767 ajay
Sanjay sir please. Is shri Vishnu sahastra nam stotram. Ko mere is watsapp number par pdf m send kar. Dijjiiyee please 9643604767 ajay
please share PDF version of Vishnu Sastranaam
Thanks a lot sunilji. With your pdf was able to chant whole Vishnu saharsnam in first try.
PDF FILE NOT AVAILABLE FOR MOST OF THEM. .KINDLY ENABLE IT
निःशुल्क डाउनलोड करें
श्रीविष्णुसहस्रनामस्तोत्रम् (लघुशब्द सहित)
https://sanjaysonkar.stores.instamojo.com/product/208478/shri-vishnusahasranaam-stotram/