SRI VISHNU SAHASRANAAM STOTRAM

❑➧वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः।।४१।।
❍ वृषाही वृषभो विष्णुर्-
वृषपर्वा वृषोदरः।
वर्धनो वर्धमानश्च
विविक्तः श्रुति-सागरः।।४१।।

❑➧सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः।।४२।।
❍ सुभुजो दुर्धरो वाग्मी
महेन्द्रो वसुदो वसुः।
नैक-रूपो बृहद्-रूपः
शिपि-विष्टः प्रकाशनः।।४२।।

❑➧ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः।
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः।।४३।।
❍ ओजस्-तेजो-द्युतिधरः
प्रकाशात्मा प्रतापनः।
ऋद्धः स्पष्टाक्षरो मन्त्रश्-
चन्द्रांशुर्-भास्कर-द्युतिः।।४३।।

❑➧अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः।।४४।।
❍ अमृतांशूद्-भवो भानुः
शशबिन्दुः सुरेश्वरः।
औषधम् जगतः सेतुः
सत्य-धर्म-पराक्रमः।।४४।।

❑➧भूतभव्यभवन्नाथः पवनः पावनोऽनलः।
कामहा कामकृत् कान्तः कामः कामप्रदः प्रभुः।।४५।।
❍ भूत-भव्य-भवन्नाथः
पवनः पावनो-ऽनलः।
कामहा कामकृत् कान्तः
कामः कामप्रदः प्रभुः।।४५।।

❑➧युगादिकृद् युगावर्तो नैकमायो महाशनः।
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित्।।४६।।
❍ युगादि-कृद् युगावर्तो
नैकमायो महाशनः।
अदृश्यो व्यक्त-रूपश्च
सहस्र-जिद-नन्तजित्।।४६।।

❑➧इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः।।४७।।
❍ इष्टो-ऽविशिष्टः शिष्टेष्टः
शिखण्डी नहुषो वृषः।
क्रोधहा क्रोध-कृत्-कर्ता
विश्वबाहुर्-महीधरः।।४७।।

❑➧अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः।
अपां निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः।।४८।।
❍ अच्युतः प्रथितः प्राणः
प्राणदो वासवानुजः।
अपाम् निधि-रधिष्ठान
मप्रमत्तः प्रतिष्ठितः।।४८।।

❑➧स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः।
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः।।४९।।
❍ स्कन्दः स्कन्द-धरो धुर्यो
वरदो वायु-वाहनः ।
वासुदेवो बृहद्-भानु
रादिदेवः पुरन्दरः।।४९।।

❑➧अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः।।५०।।
❍ अशोकस्-तारणस्-तारः
शूरः शौरिर्-जनेश्वरः।
अनुकूलः शतावर्तः
पद्मी पद्म-निभेक्षणः।।५०।।

❑➧पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत्।
महर्द्धिऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः।।५१।।
❍ पद्मनाभो-ऽरविन्दाक्षः
पद्मगर्भः शरीरभृत्।
महर्द्धि-ऋद्धो वृद्धात्मा
महाक्षो गरुड-ध्वजः।।५१।।

❑➧अतुलः शरभो भीमः समयज्ञो हविर्हरिः।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः।।५२।।
❍ अतुलः शरभो भीमः
समयज्ञो हविर्हरिः।
सर्व-लक्षण-लक्षण्यो
लक्ष्मीवान् समितिञ्जयः।।५२।।

❑➧विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः।
महीधरो महाभागो वेगवानमिताशनः।।५३।।
❍ विक्षरो रोहितो मार्गो
हेतुर्-दामोदरः सहः।
महीधरो महाभागो
वेगवान-मिताशनः।।५३।।

❑➧उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः।
करणं कारणं कर्ता विकर्ता गहनो गुहः।।५४।।
❍ उद्भवः क्षोभणो देवः
श्रीगर्भः परमेश्वरः।
करणम् कारणम् कर्ता
विकर्ता गहनो गुहः।।५४।।

❑➧व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः।
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः।।५५।।
❍ व्यवसायो व्यवस्थानः
संस्थानः स्थानदो ध्रुवः।
परर्द्धिः परम-स्पष्टस्-
तुष्टः पुष्टः शुभेक्षणः।।५५।।

❑➧रामो विरामो विरतो मार्गो नेयो नयोऽनयः।
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः।।५६।।
❍ रामो विरामो विरतो
मार्गो नेयो नयोऽनयः।
वीरः शक्ति-मताम् श्रेष्ठो
धर्मो धर्म-विदुत्तमः।।५६।।

❑➧वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः।।५७।।
❍ वैकुण्ठः पुरुषः प्राणः
प्राणदः प्रणवः पृथुः।
हिरण्य-गर्भः शत्रुघ्नो
व्याप्तो वायु-रधोक्षजः।।५७।।

❑➧ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः।।५८।।
❍ ऋतुः सुदर्शनः कालः
परमेष्ठी परिग्रहः।
उग्रः संवत्सरो दक्षो
विश्रामो विश्व-दक्षिणः।।५८।।

❑➧विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम्।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः।।५९।।
❍ विस्तारः स्थावर-स्थाणुः
प्रमाणम् बीजम-व्ययम्।
अर्थोऽनर्थो महाकोशो
महाभोगो महाधनः।।५९।।

❑➧अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः।
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः।।६०।।
❍ अनिर्विण्णः स्थविष्ठोऽभूर्-
धर्मयूपो महामखः।
नक्षत्र-नेमिर्-नक्षत्री
क्षमः क्षामः समीहनः।।६०।।

❑➧यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम्।।६१।।
❍ यज्ञ इज्यो महेज्यश्च
क्रतुः सत्रम् सताम् गतिः।
सर्वदर्शी विमुक्तात्मा
सर्वज्ञो ज्ञान-मुत्तमम्।।६१।।

❑➧सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत्।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः।।६२।।
❍ सुव्रतः सुमुखः सूक्ष्मः
सुघोषः सुखदः सुहृत्।
मनोहरो जितक्रोधो
वीरबाहुर्-विदारणः।।६२।।

❑➧स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः।।६३।।
❍ स्वापनः स्ववशो व्यापी
नैकात्मा नैक-कर्मकृत्।
वत्सरो वत्सलो वत्सी
रत्न-गर्भो धनेश्वरः।।६३।।

❑➧धर्मगुब्धर्मकृद्धर्मी सदसत् क्षरमक्षरम्।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः।।६४।।
❍ धर्मगुब्-धर्मकृद्-धर्मी
सदसत् क्षर-मक्षरम्।
अविज्ञाता सहस्रांशुर्-
विधाता कृत-लक्षणः।।६४।।

❑➧गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः।।६५।।
❍ गभस्ति-नेमिः सत्त्वस्थः
सिंहो भूत-महेश्वरः।
आदिदेवो महादेवो
देवेशो देवभृद्-गुरुः।।६५।।

❑➧उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः।
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः।।६६।।
❍ उत्तरो गोपतिर्-गोप्ता
ज्ञान-गम्यः पुरातनः।
शरीर-भूत-भृद्-भोक्ता
कपीन्द्रो भूरि-दक्षिणः।।६६।।

❑➧सोमपोऽमृतपः सोमः पुरुजित् पुरुसत्तमः।
विनयो जयः सत्यसन्धो दाशार्हः सात्त्वतां पतिः।।६७।।
❍ सोमपो-ऽमृतपः सोमः
पुरुजित् पुरु-सत्तमः।
विनयो जयः सत्य-सन्धो
दाशार्हः सात्त्वतां पतिः।।६७।।

❑➧जीवो विनयितासाक्षी मुकुन्दोऽमितविक्रमः।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः।।६८।।
❍ जीवो विनयिता-साक्षी
मुकुन्दो-ऽमित-विक्रमः।
अम्भो-निधिर-नन्तात्मा
महोदधि-शयोऽन्तकः।।६८।।

❑➧अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः।।६९।।
❍ अजो महार्हः स्वा-भाव्यो
जिता-मित्रः प्रमोदनः।
आनन्दो नन्दनो नन्दः
सत्य-धर्मा त्रिविक्रमः।।६९।।

❑➧महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः।
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत्।।७०।।
❍ महर्षिः कपिलाचार्यः
कृतज्ञो मेदिनी-पतिः।
त्रिपदस्-त्रिदशाध्यक्षो
महाशृङ्गः कृतान्त-कृत्।।७०।।

❑➧महावराहो गोविन्दः सुषेणः कनकाङ्गदी।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः।।७१।।
❍ महावराहो गोविन्दः
सुषेणः कनकाङ्गदी।
गुह्यो गभीरो गहनो
गुप्तश्-चक्र-गदाधरः।।७१।।

❑➧वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः।।७२।।
❍ वेधाः स्वाङ्गोऽजितः कृष्णो
दृढः सङ्कर्षणो-ऽच्युतः।
वरुणो वारुणो वृक्षः
पुष्कराक्षो महामनाः।।७२।।

❑➧भगवान् भगहानन्दी वनमाली हलायुधः।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः।।७३।।
❍ भगवान् भगहा-नन्दी
वनमाली हलायुधः।
आदित्यो ज्योतिरादित्यः
सहिष्णुर्-गतिसत्तमः।।७३।।

❑➧सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः।
दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः।।७४।।
❍ सुधन्वा खण्ड-परशुर्-
दारुणो द्रविण-प्रदः।
दिवःस्पृक् सर्वदृग्-व्यासो
वाचस्पतिर-योनिजः।।७४।।

❑➧त्रिसामा सामगः साम निर्वाणं भेषजं भिषक्।
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम्।।७५।।
❍ त्रिसामा सामगः साम
निर्वाणं भेषजं भिषक्।
संन्यास-कृच्छमः शान्तो
निष्ठा शान्तिः परायणम्।।७५।।

❑➧शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः।।७६।।
❍ शुभाङ्गः शान्तिदः स्रष्टा
कुमुदः कुवलेशयः।
गोहितो गोपतिर्-गोप्ता
वृषभाक्षो वृषप्रियः।।७६।।

❑➧अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः।।७७।।
❍ अनिवर्ती निवृत्तात्मा
सङ्क्षेप्ता क्षेम-कृच्छिवः।
श्रीवत्स-वक्षाः श्रीवासः
श्रीपतिः श्रीमतांवरः।।७७।।

❑➧श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः।।७८।।
❍ श्रीदः श्रीशः श्रीनिवासः
श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः
श्रीमाँल्-लोक-त्रयाश्रयः।।७८।।

❑➧स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः।
विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः।।७९।।
❍ स्वक्षः स्वङ्गः शतानन्दो
नन्दिर्-ज्योतिर्-गणेश्वरः।
विजितात्मा-ऽविधेयात्मा
सत्कीर्तिश्-छिन्न-संशयः।।७९।।

❑➧उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः।।८०।।
❍ उदीर्णः सर्वतश्-चक्षु-
रनीशः शाश्वत-स्थिरः।
भूशयो भूषणो भूतिर्-
विशोकः शोकनाशनः।।८०।।