❑➧अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः।।८१।।
❍ अर्चिष्मानर्चितः कुम्भो
विशुद्धात्मा विशोधनः।
अनिरुद्धो-ऽप्रतिरथः
प्रद्युम्नो-ऽमित-विक्रमः।।८१।।
❑➧कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः।।८२।।
❍ कालनेमि-निहा वीरः
शौरिः शूर-जनेश्वरः।
त्रिलोकात्मा त्रिलोकेशः
केशवः केशिहा हरिः।।८२।।
❑➧कामदेवः कामपालः कामी कान्तः कृतागमः।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः।।८३।।
❍ कामदेवः कामपालः
कामी कान्तः कृतागमः।
अनिर्देश्य-वपुर्-विष्णुर्-
वीरोऽनन्तो धनञ्जयः।।८३।।
❑➧ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः।।८४।।
❍ ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा
ब्रह्म ब्रह्म-विवर्धनः।
ब्रह्मविद् ब्राह्मणो ब्रह्मी
ब्रह्मज्ञो ब्राह्मण-प्रियः।।८४।।
❑➧महाक्रमो महाकर्मा महातेजा महोरगः।
महाक्रतुर्महायज्वा महायज्ञो महाहविः।।८५।।
❍ महाक्रमो महाकर्मा
महातेजा महोरगः।
महाक्रतुर्-महायज्वा
महायज्ञो महाहविः।।८५।।
❑➧स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः।।८६।।
❍ स्तव्यः स्तव-प्रियः स्तोत्रं
स्तुतिः स्तोता रण-प्रियः।
पूर्णः पूरयिता पुण्यः
पुण्य-कीर्ति-रनामयः।।८६।।
❑➧मनोजवस्तीर्थकरो वसुरेता वसुप्रदः।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः।।८७।।
❍ मनोजवस्-तीर्थकरो
वसुरेता वसुप्रदः।
वसुप्रदो वासुदेवो
वसुर्-वसुमना हविः।।८७।।
❑➧सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः।।८८।।
❍ सद्-गतिः सत्कृतिः सत्ता
सद्-भूतिः सत्परायणः।
शूरसेनो यदुश्रेष्ठः
सन्निवासः सुयामुनः।।८८।।
❑➧भूतावासो वासुदेवः सर्वासुनिलयोऽनलः।
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः।।८९।।
❍ भूतावासो वासुदेवः
सर्वा-सुनिलयो-ऽनलः।
दर्पहा दर्पदो दृप्तो
दुर्धरोऽथा-पराजितः।।८९।।
❑➧विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः।।९०।।
❍ विश्व-मूर्तिर्-महा-मूर्तिर्
दीप्त-मूर्तिर-मूर्तिमान्।
अनेक-मूर्तिरव्यक्तः
शत-मूर्तिः शताननः।।९०।।
❑➧एको नैकः सवः कः किं यत्तत्पदमनुत्तमम्।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः।।९१।।
❍ एको नैकः सवः कः किं
यत्-तत्-पद-मनुत्तमम्।
लोकबन्धुर्-लोकनाथो
माधवो भक्त-वत्सलः।।९१।।
❑➧सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी।
वीरहा विषमः शून्यो घृताशीरचलश्चलः।।९२।।
❍ सुवर्ण-वर्णो हेमाङ्गो
वराङ्गश्-चन्दनाङ्गदी।
वीरहा विषमः शून्यो
घृताशीर-चलश्-चलः।।९२।।
❑➧अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक्।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः।।९३।।
❍ अमानी मानदो मान्यो
लोक-स्वामी त्रिलोक-धृक्।
सुमेधा मेधजो धन्यः
सत्य-मेधा धराधरः।।९३।।
❑➧तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः।
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः।।९४।।
❍ तेजोवृषो द्युतिधरः
सर्वशस्त्र-भृतां वरः।
प्रग्रहो निग्रहो व्यग्रो
नैकशृङ्गो गदाग्रजः।।९४।।
❑➧चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात्।।९५।।
❍ चतुर्मूर्तिश्-चतुर्बाहुश्-
चतुर्व्यूहश्-चतुर्गतिः।
चतुरात्मा चतुर्भावश्-
चतुर्वेद-विदेकपात्।।९५।।
❑➧समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा।।९६।।
❍ समावर्तोऽ-निवृत्तात्मा
दुर्जयो दुरति-क्रमः।
दुर्लभो दुर्गमो दुर्गो
दुरावासो दुरारिहा।।९६।।
❑➧शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः।।९७।।
❍ शुभाङ्गो लोक-सारङ्गः
सुतन्तुस्-तन्तु-वर्धनः।
इन्द्रकर्मा महाकर्मा
कृतकर्मा कृतागमः।।९७।।
❑➧उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः।
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी।।९८।।
❍ उद्भवः सुन्दरः सुन्दो
रत्ननाभः सुलोचनः।
अर्को वाजसनः शृङ्गी
जयन्तः सर्वविज्-जयी।।९८।।
❑➧सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः।
महाह्रदो महागर्तो महाभूतो महानिधिः।।९९।।
❍ सुवर्ण-बिन्दुरक्षोभ्यः
सर्ववागीश्-वरेश्वरः।
महाह्रदो महागर्तो
महाभूतो महानिधिः।।९९।।
❑➧कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः।
अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः।।१००।।
❍ कुमुदः कुन्दरः कुन्दः
पर्जन्यः पावनोऽनिलः।
अमृताशो-ऽमृतवपुः
सर्वज्ञः सर्वतो-मुखः।।१००।।
❑➧सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः।
न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः।।१०१।।
❍ सुलभः सुव्रतः सिद्धः
शत्रुजिच्-छत्रुतापनः।
न्यग्रोधो-ऽदुम्बरो-ऽश्वत्थश्-
चाणूरान्ध्र-निषूदनः।।१०१।।
❑➧सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः।।१०२।।
❍ सहस्रार्चिः सप्त-जिह्वः
सप्तैधाः सप्त-वाहनः।
अमूर्तिर-नघोऽचिन्त्यो-
भयकृद्-भयनाशनः।।१०२।।
❑➧अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान्।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः।।१०३।।
❍ अणुर्-बृहत्-कृशः स्थूलो
गुणभृन्-निर्गुणो महान्।
अधृतः स्वधृतः स्वास्यः
प्राग्वंशो वंश-वर्धनः।।१०३।।
❑➧भारभृत् कथितो योगी योगीशः सर्वकामदः।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः।।१०४।।
❍ भारभृत् कथितो योगी
योगीशः सर्व-कामदः।
आश्रमः श्रमणः क्षामः
सुपर्णो वायु-वाहनः।।१०४।।
❑➧धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः।
अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः।।१०५।।
❍ धनुर्धरो धनुर्वेदो
दण्डो दमयिता दमः।
अपराजितः सर्वसहो
नियन्ताऽ-नियमोऽ-यमः।।१०५।।
❑➧सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः।।१०६।।
❍ सत्त्ववान् सात्त्विकः सत्यः
सत्य-धर्म-परायणः।
अभिप्रायः प्रियार्-होऽर्हः
प्रियकृत् प्रीति-वर्धनः।।१०६।।
❑➧विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग् विभुः।
रविर्विरोचनः सूर्यः सविता रविलोचनः।।१०७।।
❍ विहाय-सगतिर्-ज्योतिः
सुरुचिर्-हुतभुग् विभुः।
रविर्-विरोचनः सूर्यः
सविता रवि-लोचनः।।१०७।।
❑➧अनन्तो हुतभुग् भोक्ता सुखदो नैकजोऽग्रजः।
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः।।१०८।।
❍ अनन्तो हुतभुग् भोक्ता
सुखदो नैकजो-ऽग्रजः।
अनिर्विण्णः सदामर्षी
लोकाधिष्ठान-मद्भुतः।।१०८।।
❑➧सनात् सनातनतमः कपिलः कपिरव्ययः।
स्वस्तिदः स्वस्तिकृत् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिणः।।१०९।।
❍ सनात् सनातन-तमः
कपिलः कपिर-व्ययः।
स्वस्तिदः स्वस्ति-कृत् स्वस्ति
स्वस्ति-भुक् स्वस्ति-दक्षिणः।।१०९।।
❑➧अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः।।११०।।
❍ अरौद्रः कुण्डली चक्री
विक्रम्-यूर्जित-शासनः।
शब्दातिगः शब्दसहः
शिशिरः शर्वरी-करः।।११०।।
❑➧अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः।।१११।।
❍ अक्रूरः पेशलो दक्षो
दक्षिणः क्षमिणाम् वरः ।
विद्वत्-तमो वीतभयः
पुण्य-श्रवण-कीर्तनः।।१११।।
❑➧उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः।।११२।।
❍ उत्तारणो दुष्कृतिहा
पुण्यो दुःस्वप्न-नाशनः।
वीरहा रक्षणः सन्तो
जीवनः पर्य-वस्थितः।।११२।।
❑➧अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः।।११३।।
❍ अनन्तरूपो-ऽनन्तश्रीर्-
जितमन्युर्-भयापहः।
चतुरश्रो गभीरात्मा
विदिशो व्यादिशो दिशः।।११३।।
❑➧अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः।
जननो जनजन्मादिर्भीमो भीमपराक्रमः।।११४।।
❍ अनादिर्-भूर्भुवो लक्ष्मीः
सुवीरो रुचिराङ्गदः।
जननो जन-जन्मादिर्-
भीमो भीम-पराक्रमः।।११४।।
❑➧आधारनिलयोऽधाता पुष्पहासः प्रजागरः।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः।।११५।।
❍ आधार-निलयो-ऽधाता
पुष्पहासः प्रजागरः।
ऊर्ध्वगः सत्-पथाचारः
प्राणदः प्रणवः पणः।।११५।।
❑➧प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः।।११६।।
❍ प्रमाणं प्राण-निलयः
प्राणभृत्-प्राण-जीवनः।
तत्त्वं तत्त्व-विदेकात्मा
जन्म-मृत्यु-जरातिगः।।११६।।
❑➧भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः।।११७।।
❍ भूर्भुवः स्वस्त-रुस्तारः
सविता प्र-पितामहः।
यज्ञो यज्ञपतिर्-यज्वा
यज्ञाङ्गो यज्ञ-वाहनः।।११७।।
❑➧यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः।
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च।।११८।।
❍ यज्ञभृद् यज्ञकृद् यज्ञी
यज्ञभुग् यज्ञ-साधनः।
यज्ञान्त-कृद् यज्ञगुह्य-
मन्न-मन्नाद एव च।।११८।।
❑➧आत्मयोनिः स्वयंजातो वैखानः सामगायनः।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः।।११९।।
❍ आत्मयोनिः स्वयंजातो
वैखानः साम-गायनः।
देवकी-नन्दनः स्रष्टा
क्षितीशः पाप-नाशनः।।११९।।
❑➧शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः।।
सर्वप्रहरणायुध ॐ नमः।।१२०।।
❍ शङ्ख-भृन्-नन्दकी चक्री
शार्ङ्ग-धन्वा गदाधरः ।
रथाङ्ग-पाणि-रक्षोभ्यः
सर्व-प्रहरणा-युधः।।१२०।।
||सर्वप्रहरणायुध ॐ नमः||