SRI VISHNU SAHASRANAAM STOTRAM

❑➧इतीदं कीर्तनीयस्य केशवस्य महात्मनः।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम्।।१२१।।
❍ इतीदम् कीर्तनी-यस्य
केशवस्य महात्मनः।
नाम्नाम् सहस्रम् दिव्या-
नाम-शेषेण प्रकीर्तितम्।।१२१।।

❑➧य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्।
नाशुभं प्राप्नुयात् किञ्चित् सोऽमुत्रेह च मानवः।।१२२।।
❍ य इदम् शृणुयान्-नित्यम्
यश्चापि परि-कीर्तयेत्।
नाशुभम् प्राप्नुयात् किञ्चित्
सोऽमुत्रेह च मानवः।।१२२।।

❑➧वेदान्तगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत्।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात्।।१२३।।
❍ वेदान्तगो ब्राह्मणः स्यात्
क्षत्रियो विजयी भवेत्।
वैश्यो धन-समृद्धः स्याच्
छूद्रः सुखम-वाप्नुयात्।।१२३।।

❑➧धर्मार्थी प्राप्नुयाद् धर्ममर्थार्थी चार्थमाप्नुयात्।
कामानवाप्नुयात् कामी प्रजार्थी चाप्नुयात् प्रजाम्।।१२४।।
❍ धर्मार्थी प्राप्नुयाद् धर्म-
मर्थार्थी चार्थ-माप्नुयात्।
कामान-वाप्नुयात् कामी
प्रजार्थी चाप्नुयात् प्रजाम्।।१२४।।

❑➧भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः।
सहस्रं वासुदेवस्य नाम्नामेतत् प्रकीर्तयेत्।।१२५।।
❍ भक्तिमान् यः सदोत्थाय
शुचिस्-तद्-गतमानसः।
सहस्रं वासुदेवस्य
नाम्नामेतत् प्रकीर्तयेत्।।१२५।।

❑➧यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम्।।१२६।।
❍ यशः प्राप्नोति विपुलं
ज्ञाति-प्राधान्य-मेव च।
अचलां श्रियमाप्नोति
श्रेयः प्राप्नोत्य-नुत्तमम्।।१२६।।

❑➧न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति।
भवत्यरोगो द्युतिमान् बलरूपगुणान्वितः।।१२७।।
❍ न भयं क्वचि-दाप्नोति
वीर्यम् तेजश्च विन्दति।
भवत्य-रोगो द्युतिमान्
बलरूप-गुणान्वितः।।१२७।।

❑➧रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात्।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः।।१२८।।
❍ रोगार्तो मुच्यते रोगाद्
बद्धो मुच्येत बन्धनात्।
भयान्-मुच्येत भीतस्तु
मुच्येता-पन्न आपदः।।१२८।।

❑➧दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम्।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः।।१२९।।
❍ दुर्गाण्यति-तरत्याशु
पुरुषः पुरुषोत्तमम्।
स्तुवन्-नाम-सहस्रेण
नित्यम् भक्ति-समन्वितः।।१२९।।

❑➧वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम्।।१३०।।
❍ वासुदेवा-श्रयो मर्त्यो
वासुदेव-परायणः।
सर्वपाप-विशुद्धात्मा
याति ब्रह्म सनातनम्।।१३०।।

❑➧न वासुदेवभक्तानामशुभं विद्यते क्वचित्।
जन्ममृत्युजराव्याधिभयं नैवोपजायते।।१३१।।
❍ न वासुदेव-भक्ताना-
मशुभम् विद्यते क्वचित्।
जन्म-मृत्यु-जरा-व्याधि-
भयम् नैवोप-जायते।।१३१।।

❑➧इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः।।१३२।।
❍ इमम् स्तवम-धीयानः
श्रद्धा-भक्ति-समन्वितः।
युज्ये-तात्म-सुख-क्षान्ति-
श्रीधृति-स्मृति-कीर्तिभिः।।१३२।।

❑➧न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः।
भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे।।१३३।।
❍ न क्रोधो न च मात्सर्यम्
न लोभो नाशुभा मतिः।
भवन्ति कृत पुण्यानाम्
भक्तानाम् पुरुषोत्तमे।।१३३।।

❑➧द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः।
वासुदेवस्य वीर्येण विधृतानि महात्मनः।।१३४।।
❍ द्यौः स-चन्द्रार्क-नक्षत्रा
खं दिशो भूर्-महोदधिः।
वासु-देवस्य वीर्येण
विधृतानि महात्मनः।।१३४।।

❑➧ससुरासुरगन्धर्वं सयक्षोरगराक्षसम्।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम्।।१३५।।
❍ स-सुरा-सुर-गन्धर्वम्
सयक्षोरग-राक्षसम्।
जगद्-वशे वर्ततेदम्
कृष्णस्य स-चराचरम्।।१३५।।

❑➧इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च।।१३६।।
❍ इन्द्रियाणि मनो बुद्धिः
सत्त्वम् तेजो बलम् धृतिः।
वासुदेवात्म-कान्याहुः
क्षेत्रम् क्षेत्रज्ञ एव च।।१३६।।

❑➧सर्वागमानामाचारः प्रथमं परिकल्पते।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः।।१३७।।
❍ सर्वाग-माना-माचारः
प्रथमम् परि-कल्पते।
आचार-प्रभवो धर्मो
धर्मस्य प्रभुरच्युतः।।१३७।।

❑➧ऋषयः पितरो देवा महाभूतानि धातवः।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम्।।१३८।।
❍ ऋषयः पितरो देवा
महा-भूतानि धातवः।
जङ्गमा-जङ्गमम् चेदं
जगन्-नारायणोद्-भवम्।।१३८।।

❑➧योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पादि कर्म च ।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात्।।१३९।।
❍ योगो ज्ञानं तथा साङ्ख्यं
विद्याः शिल्पादि कर्म च ।
वेदाः शास्त्राणि विज्ञान-
मेतत्-सर्वम् जनार्दनात्।।१३९।।

❑➧एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः।
त्रीँल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः।।१४०।।
❍ एको विष्णुर्-महद्-भूतम्
पृथग्-भूतान्य-नेकशः।
त्रीँल्लोकान्-व्याप्य भूतात्मा
भुङ्क्ते विश्व-भुगव्ययः।।१४०।।

❑➧इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम्।
पठेद्य इच्छेत् पुरुषः श्रेयः प्राप्तुं सुखानि च।।१४१।।
❍ इमम् स्तवम् भगवतो
विष्णोर्-व्यासेन कीर्तितम्।
पठेद्य इच्छेत् पुरुषः
श्रेयः प्राप्तुम् सुखानि च।।१४१।।

❑➧विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम्।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम्।।१४२।।
❍ विश्वेश्वर-मजम् देवम्
जगतः प्रभु-म-व्ययम्।
भजन्ति ये पुष्कराक्षम्
न ते यान्ति पराभवम्।।१४२।।

ॐ तत्सत् इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रम्।